________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-],
मूलं -1,
नियुक्ति: [-]
(४३)
प्रत सूत्रांक [-]
विकला प्रेक्षावतां प्रवृत्तिः, तस्यास्तद्यापकत्वाद्, व्याप्यस्य च व्यापकाविनाभावित्वात् , अतः प्रेक्षावत्प्रवृत्त्यङ्गमात्वात् फलयोगमङ्गलसमुदायार्थानुयोगद्वारतद्भेदनिरुक्तिक्रमप्रयोजनानि याच्यानि । यथ शब्दस्याप्रमाणत्वमभिधाय । मतदभिधानस्यानर्थकत्वमिह कैश्चिदुक्तं, तदसाधु, शब्दस्याप्रमाणत्वे तत्प्रामाण्यमूलत्वेन सकलव्यवहाराणामुच्छेद
प्रसङ्गात् , उक्तं हि-"लोकिकव्यवहारोऽपि, यस्मिन्न व्यवतिष्ठते । तत्र साधुत्वविज्ञानं, व्यामोहोपनिवन्धनम् ॥१॥" इति । तथा च शास्त्रादौ फलादिप्रतिपादिका पूर्वाचार्यगाथा-'तस्स फलजोगमंगलसमुदायत्था तहेव दाराई । है तब्भेयनिरुत्तिकमपयोयणाईच बचाई ॥१॥'फलाभिलाषिणां च सकलप्रेक्षावतां प्रवृत्तिरिति प्रथमतः फलस्थाभि-3
धानं, तत्रापि किमिदं सम्बद्धमुतासम्बद्धमिति विचारत एव विपश्चितः प्रवर्तन्त इति तदनु योगस्य, इत्यादि क्रमप्रमायोजनं सर्वत्र योज्य, तत्र फलं कर्तुः श्रोतुश्चाव्यवहितं विनेयानुग्रहो यथावदर्थावबोधश्च, व्यवहितं पुनरुभयोरपि
तदुत्तरोत्तरगुणप्रकर्षप्राप्त्याऽपवर्गावाप्तिरिति । योगः सम्बन्धः, स च हेतुतः फलतश्च, तत्र हेतुत उत्तराध्ययनानुयोगस्य साक्षात्कृतधर्माणः सूत्रकृत एव यथाखं प्रणेतारः ततस्तदवयोधिततदर्धास्तच्छिष्याः ततोऽपि तद्विने-12
यास्तावद् यावद् भगवान् भद्रबाहुः ततो भाष्यकृतस्ततश्चर्णिकृतः ततोऽपि वृत्तिकृतो यावदस्मद्गुरष इति गुरुपर्व-13 दाक्रमलक्षणः । फलतस्तूपायोपेयभावरूपः अभिहितफलस्योपेयत्वात् प्रस्तुतानुयोगस्य च तदुपायत्वादिति । ममाति
१ तस्य फलयोगमङ्गलसमुदायार्थास्तथैव द्वाराणि । तद् (द्वार ) भेदनिरुक्तिक्रमप्रयोजनानि च वाच्यानि ॥ १ ॥
दीप अनुक्रम
[-]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~6~