________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [११],
मूलं [-] / गाथा ||६-१३|| नियुक्ति: [३१७]
(४३)
प्रत सूत्रांक ||६-१३||
हस्तादिभिः भाषाचपलः-असदसभ्यासमीक्ष्यादेशकालप्रलापिभेदाचतुर्दा, तत्र असद्-अविद्यमानमसभ्यं-खरपरुषा|दि असमीक्ष्य-अनालोच्य प्रलपन्तीत्येवंशीला असदसभ्यासमीक्ष्यप्रलापिनस्त्रयः, अदेशकालप्रलापी चतुर्थः अतीते - कार्य यो वक्ति-यदिदं तत्र देशे काले वाऽकरिष्यत् ततः सुन्दरमभविष्यद्, भाषचपलः सूत्रेऽर्थे वाऽसमाप्त एवं योऽन्यद् गृह्णाति, 'अमायी' न मनोज्ञमाहारादिकमवाप्य गुर्वा दिवञ्चकः, 'अकुतूहलः' न कुहुकेन्द्रजालाद्यवलोकनपरः, 'अल्पं च' इति स्तोकमेव 'अधिक्षिपति' तिरस्कुरुते, किमुक्तं भवति ?-नाधिक्षिपत्येव तावदसौ कश्चन, अधि-13 क्षिपन् वा कञ्चन कङ्कटेकरूपं धर्म प्रति प्रेरयन्नल्पमेवाधिक्षिपति, अभाववचनो वाऽल्पशब्दः, तथा च वृद्धाः“अल्पशब्दो हि स्तोकेऽभावे च", ततो नैव कश्चनाधिक्षिपति, 'प्रबन्ध' चोक्तरूपं न करोति, "मित्रीय्यमाणः || उक्तन्यायेन 'भजते' मित्रीयितारमुपकुरुते, न तु प्रत्युपकारं प्रत्यसमर्थः कृतघ्नो वा, श्रुतं लब्ध्वा न माद्यति, किन्तु मददोषपरिज्ञानतः सुतरामवनमति, 'नच' नैव 'पापपरिक्षेपी' उक्तरूपः, न च मित्रेभ्यः कृतज्ञतया कथश्चिदपराधेऽपि कुप्यति, अप्रियस्यापि मित्रस्य रहसि 'कलाण'त्ति कल्याणं भापते, इदमुक्तं भवति-मित्रमिति यः प्रति
पन्नः स यद्यप्यपकृतिशतानि विधत्ते तथाऽप्येकमपि सुकृतमनुस्मरन् न रहस्यपि तद्दोषमुदीरयति, तथा चाहदिला"एकसकतेन दुष्कृतशतानि ये नाशयन्ति ते धन्याः । न त्वेकदोपजनितो येषां कापः स च कृतघः॥१॥" इति.
कलहश्व-वाचिको विग्रहः डमरं च-प्राणिघातादिभिस्तद्वर्जको, 'बुद्धो' बुद्धिमान् , एतच सर्वत्रानुगम्यत एवेति|
दीप अनुक्रम [३३३-३४०]
AanEdirational
For
F
un
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~692~