SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [११], मूलं [-1 /गाथा ||३७...|| नियुक्ति: [३१०] (४३) प्रत सूत्रांक ||३७|| अथ बहुश्रुतपूजाख्यमेकादशमध्ययनम् । उक्तं दशममध्ययनं, साम्प्रतमेकादशमारभ्यते, अस्य चायमभिसम्बन्धः-दहानन्तराध्ययनेऽप्रमादार्थमनुशासनमुक्तं, तब विवेकिनैव भावयितुं शक्यं, विवेकश्च बहुश्रुतपूजात उपजायत इति बहुश्रुतपूजोच्यते इत्यनेन सम्बन्धे नाऽऽयातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि प्ररूपयितव्यानि, यावन्नामनिष्पन्ने निक्षेपे 'बहुसूत्रपूजा बहुश्रुत४ पूजे ति वा नाम, अतस्त निक्षेपप्रतिपिपादयिषयेदमाह नियुक्तिकृत् बहु सुए पूजाए यतिण्हपि चउकओ य निक्लेवो । दवबहुगेण बहुगा जीवा तह पुग्गला चेव ॥३१०॥ | व्याख्या-'बहु'त्ति बहोः 'सुए'त्ति शतमुखत्वात् प्राकृतस्य सूत्र य श्रुतस्य वा 'पुयाए यत्ति पूजायाश्च 'त्रयाणामपि' अमोषां पदानां 'चतुष्कस्तु' चतुष्परिमाण एक 'निक्षेपः' न्यासः, स च नामादिः, तत्र नामस्थापने क्षुण्णे, द्रव्यतस्तु बह्वभिधातुमाह-'दवबहुएम'त्ति आर्षत्वात् द्रव्यतो बहुत्वं द्रव्यवहुत्वं तेन 'बहुकाः' प्रभूताः 'जीवा' उपयोगलक्षणाः, तथा 'पुद्गलाः' स्पर्शादिलक्षणाः, चशब्दः पुदलानां जीवापेक्षया बहुतरत्वं ख्यापय ति, ते खेकैकस्मिन् संसारिजीवप्रदेशेऽनन्तानन्ता एव सन्ति, 'एवः' अवधारणे, जीपपुद्गला एव द्रव्यवह वः, तत्र धर्माधर्माऽऽकाशानामेकद्रव्यत्वात् कालस्यापि तत्त्वतः समयरूपत्वेन बहुत्वाभावादिति गाथार्थः॥ XKA- 25 दीप अनुक्रम [३२७]] For Free मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्तिः अथ अध्ययनं - ११ "बहुश्रुतपूजा" आरभ्यते ~682~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy