________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१],
मूलं [-] / गाथा ||५५-५७|| नियुक्ति: [२७९...]
(४३)
प्रत
सूत्रांक
||५५
-५७||
दह्यते इत्याधुक्तेऽपि कथं मयि जीवतीदमिति नाहतिं कृतवानिति, तथा 'अहो ते णरकिय'त्ति प्राकृतत्वान्निराकृता-अपास्ता माया, यस्त्वं पुररक्षाहेतुपु प्राकाराहालकोच्छूलकादिषु निकृतिहेतुकेष्वामोषकोच्छेदनादिषु च ना मनो निहितवान् , तथा च अहो ते लोभो 'वशीकृत' इति नियत्रितः, यस्त्वं हिरण्यादि वर्द्धयित्वा गच्छेति सहेतुकमभिहितोऽपीच्छाया आकाशसमत्वमेवोदाइतवान् , अत एव अहो 'ते' तव 'आजवम्' ऋजुत्वं 'साधु' शोभनम् , अहो ते साधु 'मार्दय' मृदुत्वम् , अहो ते 'उत्तमा' प्रधाना 'क्षान्तिः' कोपोपशमलक्षणा, अहो ते 'मुक्तिः' निर्लोभता उत्तमा, व्यत्ययनिर्देशस्त्वनानुपूर्यपि प्ररूपणाऽङ्गमितिकृत्वेति सूत्रत्रयार्थः ॥ इत्थं गुणोपवर्णनद्वारेणाभिष्टुत्य सम्प्रति । फलोपदर्शनद्वारेण स्तुवन्नाह| इहंऽसि उत्तमो भंते !, पेचा होहिसि उत्तमो। लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ ।। ५८॥ PI व्याख्या-'इह' अस्मिन् जन्मनि 'असि' भवसि 'उत्तमः' प्रधानः, उत्तमगुणान्वितत्वात् , 'भंतेत्ति पूज्याभिधानं
प्रेत्य' परलोके भविष्यसि उत्तमः, कथमित्याह-लोकस्य-चतुर्दशरज्वात्मकस्य 'उत्तमम् उपरिवर्ति लोकोत्तमम् है उत्तम' देवलोकाद्यपेक्षया प्रधानम् , अथवा 'लोगोत्तममुत्तमति मकारोऽलाक्षणिकः, ततो लोकस्य लोके वा
उत्तमोत्तमम्-अतिशयप्रधानं लोकोत्तमोत्तम, तिष्ठसस्मिन् नातः परं गच्छतीति स्थानं, किं तदित्याह-'सिद्धिं'। xमुक्तिं 'गच्छसि त्ति सूत्रत्वाद्गमिष्यसि, निगेतो रजसः-कर्मण इति नीरजा इति सूत्रार्थः । उपसंहारमाह
दीप अनुक्रम [२८३
-२८५]
For
wiancibraram
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~636~