________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१],
मूलं [-] / गाथा ||३३-३६|| नियुक्ति: [२७९...]
(४३)
प्रत
सूत्रांक
||३३-३६||
शतसहस्रजयात् 'परमः' प्रकृष्टः 'जय' परेषामभिभवः, तदनेनाऽऽत्मन एवातिदुर्जयत्वमुक्तं, तथा च-'अप्पाणमेव'त्ति तृतीयार्थे द्वितीया, ततश्चाऽऽत्मनैव सह 'युध्यख' सामं कुरु, यद्वा युद्धेरन्तर्भावितण्यर्थत्वात् युध्यखेति योधयस्व, कम् ?-आत्मानं, इहाप्यात्मनैव सहेति शेषः, किं ?, न किञ्चिदित्यर्थः, 'ते' तव 'युद्धेन' सङ्ग्रामेण, 'बाह्यत' । इति वावं पार्थिवादिकमाश्रित्य, यदिवा बाह्यत इति तृतीयाथै तसिः, ततो बाह्येन युद्धेनेति सम्बध्यते, एवं च 'अप्पाणमेव त्ति आत्मनवान्यव्यतिरिक्तेनाऽऽत्मानं स्वं 'जइत्त'ति जित्वा 'सुखम्' ऐकान्तिकात्यन्तिकमुक्तिसुखात्मकम् 'एधते' इत्यनेकार्थत्वाद्धातूनां प्राप्नोति, अथवा 'सुहमेहए'त्ति शुभं-पुण्यमेधते-अन्तर्भावितण्यर्थत्वात् वृद्धि । नयति। कथमात्मन्येव जिते सुखावासिरित्याह-'पञ्चेन्द्रियाणि' श्रोत्रादीनि 'क्रोधः' कोपः 'मानः' अहङ्कारः 'माया' निकृतिः तथैव 'लोभश्च' गायलक्षणः 'दुर्जयः' दुरभिभवः, 'चः समुचये, 'एव' इति पूरणे, अतति-सततं गच्छति है। तानि तान्यध्यवसायस्थानान्तराणीति व्युत्पत्तेः आत्मा-मनः, सर्वत्र च सूत्रत्वात् नपा निर्देशः, 'सर्वम्' अशेषमिन्द्रियादि, उपलक्षणत्वान्मिथ्यात्वादि च, 'आत्मनि' जीवे 'जिते' अभिभूते 'जित मिति अभिभूतमेव । ननु मनसि जिते । जितान्येवेन्द्रियादीनीति किं पृथक तजयाभिधानेन ?, सत्यं, तथापि प्रत्येकं दुर्जयत्वख्यापनाय पृथगुपन्यास इत्य-: दोषः, यद्वा-'दुजयं चेव अप्पाणं'ति चकारी हेत्वर्थः, 'एवः' अवधारणे भिन्नक्रमश्च आत्मशब्दादनन्तरं द्रष्टव्यः, १ नपुंसकत्वेनेत्यर्थः
दीप अनुक्रम [२६१-२६२]
AIMEducatan indarhatiane
narjancibraram
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~626~