________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं नियुक्ति:+वृत्ति:) अध्ययनं [९],
मूलं [-]/ गाथा ||७|| नियुक्ति: [२७९...]
(४३)
र
प्रत सूत्रांक ||७||
हलकेन-बहलकलकलात्मकेन सङ्कुलाः-व्याकुलाः कोलाहलकसंकुलाः 'श्रूयन्ते' इत्याकर्ण्यन्ते 'शब्दा' ध्वनय इति सम्बन्धः, ते च कदाचिद्वन्दिवृन्दोदीरिता अपि स्युः तन्निराकरणायाह-दारयन्ति जनमनांसीति दारुणाः-विलपिताऽऽक्रन्दितादयः, व पुनस्ते ?-'प्रासादेषु' सप्तभूमादिषु 'गृहेषु' सामान्यवेश्मसु, यद्वा 'प्रासादो देवतानरेन्द्राणा'मितिवचनात् प्रासादेषु देवतानरेन्द्रसम्बन्धिष्वास्पदेषु 'गृहेषु' तदितरेषु चशब्दात्रिकचतुष्कचत्वरादिषु चेति सूत्रार्थः ॥ ततश्च
एयम निसामित्ता, हेउकारणचोइओ। ततो णमी रायरिसी, देविदं इणमब्यवी ॥९॥ | व्याख्या-'एनम्' अनन्तरोक्तम् 'अर्थ' इत्युपचारादर्थाभिधायिनं ध्वनि निशम्य' आकर्ण्य हिनोति-गमयति । विवक्षितमर्थमिति हेतुः, स च पञ्चावयववाक्यरूपः, कारणं च-अन्यथाऽनुपपत्तिमात्रं ताभ्यां चोदितः-प्रेरितः हेतुकारणचोदितः, कोलाहलकसङ्कला दारुणाः शब्दाः श्रूयन्त इत्यनेन हि उभयमेतत् सूचितं, तथाहि-अनुचितमिदं भवतोऽभिनिष्क्रमणमिति प्रतिज्ञा, आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतुः, प्राणव्यपरोपणादिवदिति दृष्टान्तः, यद्यदाक्रन्दादिदारुणशब्दहेतुस्तत्तद्धर्मार्थिनोऽनुचितं, यथा प्राणव्यपरोपणादि, तथा चेदं भवतोऽभिनिष्क्रमणमित्युपनयः, तस्मादाक्रन्दादिदारुणशब्दादिहेतुत्वादनुचितं भवतोऽभिनिष्क्रमणमिति निगमनमिति पञ्चावयवं है। वाक्यमिह हेतुः, शेषावयवविवक्षाविरहितं त्वाक्रन्दादिदारुणशब्दहेतुत्वं भवदभिनिष्क्रमणानुचितत्वं विनाऽनुपपन्न
दीप अनुक्रम [२३५]
RECARBOOK
*
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: | अत्र सूत्रक्रम ८ वर्तते, मूल संपादने स्खलनत्वात् तस्य क्रम “९" मुद्रितं
~614~