________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [९],
मूलं [-] / गाथा ||१|| _ नियुक्ति: [२७४-२७९]
(४३)
-
प्रत सूत्रांक
||१||
| इत्यवसितो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रालापकनिष्पन्नस्यावसरः, स च सूत्रे सति भवतीति सूत्रानुगमे सूत्रमुचारणीयं, तच्चेदम्
चहऊण देवलोगाओ उवधन्नो माणुसंमि लोगंमि । उघसंतमोहणिज्जो सरती पोराणियं जाई॥१॥ व्याख्या-च्युक्त्वा 'देवलोकात्' प्रतीतात् , 'उत्पन्नः' जाप्तः 'मानुषे' मानुषसम्बन्धिनि 'लोके' प्राणिगणे उपशान्तम्-अनुदयं प्राप्तं मोहनीयं-दर्शनमोहमीयं यस्यासाघुपशान्तमोहनीयः 'स्मरति चिन्तयति, स्मेति शेषः, वर्तमाननिर्देशो वा प्राग्वत् , कामित्याह-पोराणियंति पुराणामेव पौराणिकी, विनयादित्वात् ठक्, चिरन्तनीमित्यर्थः, 'जातिम्' उत्पत्ति, देवलोकादाविति प्रक्रमः, तद्गतसफलचेष्टोपलक्षणं घेह जातिरिति सूत्रार्थः । ततः |किमित्याह
जाई सरितु भयचं सहसंबुद्धो अणुत्तरे धम्मे । पुस ठवितु रज्जे अभिनिक्खमति नमी राया ॥२॥ व्याख्या-'जातिम्' उक्तरूपां स्मृत्वा, भगशब्दो यद्यपि धैर्यादिष्वनेकेषु अर्थेषु वर्तते, यदुक्तं-"धैर्यसौभाग्यमाहात्म्ययशोऽर्कश्रुतधीश्रियः । तपोऽर्थोपस्थपुण्येशप्रयत्नतनवो भगाः॥१॥” इति, तथापीह प्रस्तावादुद्धिवचन एव गृह्यते, ततो भगो-बुद्धिर्यस्यास्तीति भगवान्, सहत्ति-खयमात्मनैव सम्बुद्धः-सम्यगवगततत्त्वः सहसम्बुद्धो, नान्येन प्रतियोधित इत्यर्थः, अथवा 'सहसति आपत्वात् सहसा-जातिस्मृत्यनन्तरं झगित्सेव बुद्धः, केत्याह
दीप अनुक्रम [२२९]]
*CARE
%A5%-
For Fun
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~610~