________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [८],
मूलं [--] / गाथा ||१४|| नियुक्ति: [२५९...]
(४३)
4%
%
प्रत
%
सूत्रांक
||१४||
व्याख्या-यह' अस्मिन् जन्मनि जीवितं' असंयमजीवितम् 'अनियम्य' द्वादशविधतपोषिधानादिनाऽनियव्य | प्रभ्रष्टाः' च्युताः, केभ्यः ?-'समाहियोगेहि ति समाधिः-चित्तखास्थ्यं तत्प्रधाना योगा:-शुभमनोवाक्कायव्यापाराः समाधियोगाः, यद्वा समाधिश्च-शुभचित्तैकाग्रता योगाश्च-पृथगेव प्रत्युपेक्षणादयो व्यापाराः समाधियोगाः तेभ्यः, अनियन्त्रितात्मनां हि पदे पदे तदभ्रंशसम्भव इति, 'ते' अनन्तरमुक्ताः कामभोगेषु अभिहितखरूपेषु रसः-अत्यन्तासक्तिरूपस्तेन गृद्धा:-तेष्वभिकालावन्तः कामभोगरसगृद्धाः, यद्वा रसाः-पृथगेच शृङ्गारादयो वा, भोगान्तर्गतत्वेऽपि चैषां पृथगुपादानमतिगृद्धिविषयताख्यापनार्थम् 'उपपद्यन्ते' जायन्ते 'आसुरे' असुरसम्बन्धिनि काये, असुरनिकाये इत्यर्थः, इदमुक्तं भवति-एवंविधाः किश्चित् कादाचित्कमनुष्ठानमनुतिष्ठन्तोऽप्यसुरेष्वेवोत्पद्यन्ते इति सूत्रार्थः ॥ ततोऽपि च्युतास्ते किमामुवन्तीत्याह| तत्तोऽविय उवद्वित्ता संसारं बहुं परियडंति । बहुकम्मलेवलित्ताणं वोही होइ सुदुल्लहा तेसिं ॥ १५ ॥
व्याख्या-'ततोऽपि च' असुरनिकायाद् 'उद्धृत्य' तत्परित्यागेनान्यत्र गत्वा 'संसारं चतुर्गतिरूपं बहुशब्दस्य | 'बहुपूपे घृतं श्रेय' इत्यादिषु विपुलवाचिनोऽपि दर्शनाद्वहुं-विपुलं विस्तीर्णमितियावत् , बहुप्रकारं वा चतुरशीतियोनिलक्षतया 'अणुपरियंति'त्ति अनुपरियन्ति, सातत्येन पर्यटन्तीत्यर्थः, पठन्ति च-'अणुचरंति'त्ति स्पष्टं, किंच-बहूनि
१ अणुपरियति इति टीका
दीप अनुक्रम [२२२]
JaintairatamiN
For
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~590~