________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [७],
मूलं [--] / गाथा ||१३|| नियुक्ति: [२४९...]
(४३)
-05
प्रत
सूत्रांक
XAM
||१३||
ह-या से'ति प्रज्ञापकः शिष्यान् प्रत्येवमाह-या सा भवतामस्माकं च प्रतीता, प्रकर्षेण ज्ञायते वस्तु सतत्त्वमनयेति | प्रज्ञा-हेयोपादेयविवेचिका बुद्धिः सा विद्यतेऽस्यासौ प्रज्ञावान् , 'अतिशायने मतुप' अतिशयश्चास्या हेयोपादेययोः हानोपादाननिबन्धनत्वमिहाभिमतं ततश्च क्रियाया अप्याक्षिप्तत्वात् यदिवा निश्चयनयमतेन क्रियारहिता प्रज्ञा|ऽप्यप्रवेति प्रज्ञयैव क्रियाऽऽक्षिप्यते ततः प्रज्ञावान् ज्ञानक्रियावानित्युक्तं भवति, तस्य प्रज्ञावतः स्थीयतेऽनयाऽर्थात् |
देवभव इति स्थितिः-देवायुः, अधिकृतत्वात् दिव्यकामाश्च, तानि च कीदृशीत्याह-यान्यनेकवर्षनयुतानि दिव्यस्थितेर्दिव्यकामानां च विषयभूतानि 'जीयन्ते' हार्यन्ते, तद्धेतुभूतानुष्ठानानासेवनेनेति भावः, पाठान्तरतो 'हारयन्ति वा,' के ते?-दुष्टा-विपर्ययादिदोषदुष्टत्वेन मेधा-वस्तुस्वरूपावधारणशक्तिरेषां ते दुर्मेधसः, विषयैर्जिता जन्तव इति गम्यते, कदा पुनस्तानि दुर्मेधसो विषयीयन्त इत्याह-ऊने वर्षशतायुपि, अनेनायुषोऽल्पत्वात् मनुष्यकामानामप्यल्पतामाह, यदिवा प्रभूते द्यायुषि प्रमादेनेकदा हारितान्यपि पुनर्जीयेरन् , अस्मिंस्तु संक्षिप्तायुष्येकदा हारितानि हारितान्येव, भगवतश्च वीरस्य तीर्थे प्रायो न्यूनवर्षशतायुष एव जन्तव इतीत्थमुपन्यासः, अयं चात्र भावार्थः-अल्पं मनुष्याणामायुर्विषयाश्चेति काकण्यानफलोपमाः, देवायुर्देवकामाश्वातिप्रभूततया कापणसहस्र१ भूमनिन्दाप्रशंसासु, नित्ययोगेऽतिशायने । संबन्धेऽस्ति विवक्षायां, भवन्ति मतुबादयः ।। १ ।। इत्युक्तेः
-04-
दीप अनुक्रम [१९१]
244-2-
Forum
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~554~