________________
आगम
(४३)
प्रत
सूत्रांक
॥८-९||
दीप
अनुक्रम [१८६
-१८७]
उत्तराध्य.
बृहद्वृत्तिः
॥२७५॥
Euston In
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [ - ] / गाथा || ८-९||
अध्ययनं [७],
व्याख्या - आसनं शयनं यानमिति प्राग्वत्, नवरं भुक्त्वेति सम्बन्धनीयं, 'वित्ते'त्ति वित्तं द्रव्यं, 'कामान्' मनो| ज्ञशब्दादीन् 'भुक्त्वा' उपभुज्य, दुःखेनात्मनः परेषां च दुःखकरणेन सुष्ठु - आदरातिशयेनाहृतम् - उपार्जितं दुःखाहतं, यद्वा । | प्राकृतत्वात् दुःखेन संहियते-मील्यते स्पेति दुःसंहृतं 'धनं' द्रव्यं हित्वा' आसनाद्युपभोगेन द्यूताद्यसद्व्ययेन च त्यक्त्वा, तथा च मिथ्यात्वादिकर्मबन्धुहेतुसम्भवाद् 'बहु' प्रभूतं 'सञ्चित्य' उपाय 'रजः' अष्टप्रकारं कर्म, ततः किमित्याह-'ततो 'ति ततो रजःसञ्चयात् तको वा सञ्चितरजाः, कर्म्मणा गुरुरिव गुरुः अधोनरकगामितया कर्म्मगुरुः, 'जन्तुः' प्राणी 'प्रत्युत्पन्नं' वर्त्तमानं तस्मिन्परायणः - तन्निष्ठः प्रत्युत्पन्नपरायणः, 'एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः' इति | नास्तिक मतानुसारितया परलोक निरपेक्ष इतियावत्, 'अएव 'त्ति अजः पशुः, स चेह प्रक्रमादुरभ्रस्तद्वत् 'आगयाएसे' ति प्राकृतत्वादागते- प्राप्ते आदेशे-प्राहुणके, एतेन प्रपञ्चितज्ञविनेयानुग्रहायोक्तमेवोरभ्रदृष्टान्तं स्मारयति, किमित्याह'मरणान्ते' प्राणपरित्यागात्मनि, अवसाने शोचति, किमुक्तं भवति ? – यथाऽऽदेशे आगते उरन उक्तनीत्या शोचति, तथाऽयमपि धिङ मां विषयव्यामोहत उपार्जितगुरुकर्माणं, हा ! केदानीं मया गन्तव्यमित्यादिप्रलापतः खिद्यते, | अत्यन्तनास्तिकस्यापि प्रायस्तदा शोकसम्भवादिति सूत्रद्वयार्थः ॥ अनेनैहिकापाय उक्तः, सम्प्रति पारभविकमाहतओ आउ परिक्खीणे, चुतदेहा विहिंसगा । आसुरियं दिसं बाला, गच्छति अवसा तमं ॥ १० ॥ व्याख्या- 'ततः ' शोचनानन्तरं 'तको वा' उपार्जितगुरुकर्म्मा 'आउ'ति आयुषि तद्भवसम्बन्धिनि जीविते
For Panther
निर्युक्ति: [ २४९...]
~ 549~
औरश्री
याध्य. ७
॥२७५॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः