________________
आगम
(४३)
प्रत
सूत्रांक
||५-७||
दीप
अनुक्रम [१८३
-१८५]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||५-७||
निर्युक्ति: [२४९..]
Jam Euston Intimana
अध्ययनं [७],
चः प्राग्वत्, महानू- अपरिमितः आरम्भः अनेकजन्तूप घातकृयापारः परिग्रहश्च - धान्यादिसञ्चयो यस्य स तथोक्तः, 'भुआनः' अभ्यवहरन्, 'सुरां' मदिरां, 'मांस' पिशितं, 'परिवृढे' त्ति परिवृढः प्रभुरुपचितमांसशोणिततया तक्रिया| समर्थ इतियावत्, अत एव परान् अन्यान् दमयति-यत्कृत्याभिमतकृत्येषु प्रवर्तयतीति परन्दमः, किंच-अज:-- छागस्तस्य कर्करं यचनकवद्भक्ष्यमाणं कर्करायते तचेह प्रस्तावान्मेदोदन्तुरमतिपक्कं वा मांसं तद्भोजी या, अत एव 'तुन्दिल:' जातबृहज्जठरः, चितम् - उपचयप्राप्तं लोहितं शोणितमस्येति चितलोहितः, शेषधातूपलक्षणमेतत्, 'आयुः' जीवितं, 'नरके' सीमन्तकादौ काङ्क्षति तद्योग्य कर्म्मारम्भितया, कमिव क इव १ इत्याह-- 'जहाएसं व | एडएत्ति आदेशमिव यथैडकः-उक्तरूपः । इह च 'हिंसे' इत्यादिना सार्धश्लोकेनारम्भ उक्तः, 'भुंजमाणे सुर' मित्यादिना चार्थद्वयेन रसद्धि:, 'आयुष्क' मित्यादिना चार्थेन दुर्गतिगमनं, तत्प्रतिपादनाञ्चार्थतः प्रत्यपायाभिधानमिति | सूत्रत्रयार्थः ॥ इदानीं यदुक्तम् 'आयुर्नरके काङ्क्षती' ति, तदनन्तरमसौ किं कुरुत इत्याह - यद्वा साक्षादैहिकापा|यदर्शनायाह
आसणं सघणं जाणं, वित्ते कामाणि भुंजिया । दुस्साहढं धणं हिचा बहुं संचिणिया रयं ॥८॥ ततो कम्मगुरू जंतू, पक्षुप्पण्णपरायणे । अएच्च आगया 'कंबे, मरणंतंमि सोयति ॥ ९ ॥
१ आगया एसेत्ति टीका ।
For Par
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
~ 548~