________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-]/ गाथा ||१||
नियुक्ति: [३६]
(४३)
प्रत सूत्रांक
||१||
व्याख्या-द्वौ विधौ प्रकारावस्येति द्विविधः-द्विभेदः, कोऽसौ !-'परमाणूनाम्' इति परमाणुसम्बन्धी, प्रक्रमादितरेतरसंयोगो भवति, 'चः पूरणे, कथं द्विविध इत्याह-'संठाणखंघतो'त्ति संतिष्ठतेऽनेन रूपेण पुद्गलात्मकं वस्त्विति संस्थानम्-आकारविशेषः ततस्तमाश्रित्य, 'स्कन्धतः स्कन्धमाश्रित्य, चः समुचये, 'एवः' भेदावधारणे । द्विविधस्यापि प्रत्येक भेदानाह-संस्थाने' संस्थानविषयः 'पञ्चविधः' पञ्चप्रकारः 'द्विविधः' द्विप्रकारः, पुनःशब्दो वाक्यान्तरोपन्यासे भवति 'स्कन्धेषु' स्कन्धविषय इति गाधार्थः ॥३६ ॥ इह च संस्थानस्कन्धभेदद्वारक एवायमितरेतरसंयोगभेद इति तदभिधानमुचितं, तत्र 'यथोद्देशं निर्देश' इति न्यायतः संस्थानभेदाभिधानप्रस्तावेऽप्यल्पवक्तव्यत्वात् स्कन्धभेदं हेतुभेदद्वारेणाहपरमाणुपुग्गला खल्लु दुन्नि व बहुगा य संहता संता। निवत्तयंति खंधं तं संठाणं अणिस्थत्थं ॥३७॥
व्याख्या-परमाणुपुद्गलौ खलु द्वौ वा बहव एव बहुकाः-त्रिप्रभृतयः, ते च परमाणुपुद्गलाः 'संहताः' एकपिण्डता-12 मापन्नाः सन्तो 'निर्वर्तयन्ति' जनयन्ति, किमित्याह-'स्कन्धं' बणुकादिकम् , अनेन च द्विपरमाणुजन्यतया बहुपर-13 ४ माणुजन्यत्वेन च स्कन्धस्य द्विभेदत्वमुक्तं, खलुशब्दोऽत्र विशेषं द्योतयति, स चायम्-इह रूक्षः स्निग्धो वा एकगुणः
सम्बध्यमानो द्विगुणाधिकेनैव खखरूपापेक्षया सम्बध्यते, न तु समगुणेनैकगुणाधिकेन वा, किमुक्तं भवति ? एकगुणस्निग्धस्त्रिगुणस्निग्धेन सम्बध्यते त्रिगुणस्निग्धः पञ्चगुणस्निग्धेन पञ्चगुणस्निग्धः सप्तगुणस्निग्धेनेत्यादि, तथा द्विगुण
दीप अनुक्रम
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिरि-विरचिता वृत्तिः
~ 54~