________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-] / गाथा ||१||
नियुक्ति: [३२]
(४३)
3496
प्रत सूत्रांक
||१||
|'कन्देन' तेनैव मूलस्कन्धान्तरालवर्तिना 'स्कन्धेन' स्थुडेन 'त्वचा' छविरूपया 'साले'त्ति एकारोऽलाक्षणिकः, ततः 'शालाप्रवालपत्रैः' शाखापल्लवपलाशैः, फले इत्यत्राप्येकारस्तथैव, ततः 'पुष्पफलबीजैश्च' प्रसिद्धैरेव 'संयुक्तः' सम्बद्धो भवति 'दुममाइत्ति' मकारोऽलाक्षणिकः ततो द्रुमादिः, आदिशब्दाद्गुच्छगुल्मादिश्च संयुक्तकसंयोग इति प्रक्रमः । स हि प्रथममुद्गच्छन्नकरात्मकः पृथिव्याः संयुक्त एव मूलेन संयुज्यते, ततो मूलसंयुक्तक एव कन्देन, कन्दसंयुक्त एव स्कन्धेन एवं त्वक्शाखाप्रवालपत्रपुष्पफलबीजैरपि पूर्वसंयुक्त एवोत्तरोत्तरैः संयुज्यते इति भावनीयम् , नन्वेवं द्रुमादेव्यत्वात् संयुक्तकसंयोगस्य च गुणत्वात्कथं द्रुमादिरेव स इति, अत्रोच्यते, धर्मधर्मिणोः कथञ्चिदनन्यत्वादेवमुक्तमित्यदोषः, र एवमुत्तरभेदयोरपीति गाथार्थः ॥ ३२ ॥ अण्वादीनामचित्तसंयुक्तकद्रव्यसंयोगं स्पष्टयितुमाह
एगरस एगवण्णे एगेगंधे तहा दुफासे अ । परमाणू खंधेहि अ दुपएसाईहि णायवो ॥ ३३ ॥ व्याख्या--एकः-अद्वितीयस्तिक्तादिरसान्यतमो रसोऽस्येति एकरसः, तथैकः कृष्णादिवर्णान्यतमो वर्णोऽस्पति एकवर्णः, एवम् 'एकगन्धः' सुगन्धीतरान्यतरगन्धान्वितः, 'एगे' इत्येकारस्थालाक्षणिकत्वात् , तथा द्वौ चावि-11 रुद्धौ स्निग्धशीताद्यात्मको स्पर्शावस्येति द्विस्पर्शः, चशब्दः खगतानन्तभेदोपलक्षकः, क एवंविधः ? इत्याहपरमः-सदन्यसूक्ष्मतरासम्भवात् प्रकर्षवान् स चासावणुश्च परमाणुः, उपलक्षणत्वाद् घणुकादिश्च, 'स्कन्धैश्च' स्कन्धश
दीप अनुक्रम
RRORSEAST
[१]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~50~