SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||३२|| दीप अनुक्रम [१६०] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा || ३२... || निर्युक्ति: [२३६] अध्ययनं [६], ॥ उक्तं पञ्चममध्ययनं, साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तराध्ययने मरणविभक्तिरुक्ता, तत्रापि चानन्तरं पण्डितमरणं, तच्च 'विरयाण पंडियं वेति'त्ति वचनाद्विरतानामेव, न चैते विद्याचरणविकला इति तत्खरूपमनेनोच्यते, इत्यनेन सम्बन्धेनायातस्याध्ययनस्य महापुरस्येव चत्वार्यनुयोगद्वाराणि भवन्तीत्यादिचर्यस्तावद्याविन्नाम निष्पन्न निक्षेषे क्षुल्लक निर्मन्थीयमिति नाम, ततः क्षुल्लकस्य निर्ग्रन्थस्य च निक्षेपः कार्यः, तत्र क्षुल्लकस्य विपक्षो महान्, तदपेक्षत्वात् क्षुल्लकस्य, इति तन्निक्षेपे निक्षिप्तमेव तद्भवतीत्यभिप्रायेणाह - नामं ठवणा दविए खित्ते काले पहाण पइ भावो । एएसि महंताणं पडिवक्खो खुल्या हुंति ॥ २३६ ॥ व्याख्या - अत्र नामस्थापने क्षुण्णे, महच्छन्दश्च प्रक्रमात् सर्वत्र गम्यते, तत्रागमतो ज्ञाताऽनुपयुक्तो द्रव्यमहत् | नोआगमतो ज्ञशरीरभव्यशरीरतद्वयतिरिक्तं द्रव्यमहद् अचित्तमहास्कन्धो दण्डादिकरणेन यश्चतुर्भिः समयैः सकललोकमापूरयति, क्षेत्रमहत् लोकालोकव्याप्याकाशं, कालमहद् अनागताद्धा, प्रधानमहत्रिधा - सचित्तमचित्तं मित्रं च, तत्र सचित्तं द्विपदं चतुष्पदमपदं च तत्र द्विपदं तीर्थंकृत् चतुष्पदं सरभः अपदं पद्मादिदोत्पन्नं पद्मम्, अचित्तं चिन्तामणिः, मिश्र तीर्थकृदेव राज्याभिषेकादिष्वलङ्कृतः, प्रतिमहत्- यदन्यापेक्षया महदुच्यते, यथा सर्वपाञ्चनकश्चनकाद्वदरमित्यादि, भावमहत् प्राधान्यतः क्षायिको भावः कालतः पारिणामिकोऽनाद्यनन्तजीवाजीवत्वादिरूपत्वा For Panther मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्तिः अथ अध्ययनं ६ “क्षुल्लकनिर्ग्रन्थिय" आरभ्यते ~508~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy