SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [-1/ गाथा ||२१|| _ नियुक्ति: [२३५...] (४३) ******* प्रत सूत्रांक ||२१|| विरयात्मकेनोत्तराः-प्रधानाः संयमोत्तराः, कुप्रवचनभिक्षवो हि जीवाद्यास्तिक्यादपि बहिष्कृताः सर्वथाऽचारित्रिदाणथेति कथं न सम्यग्दृशो देशचारित्रिणो गृहिणस्तेभ्यः संयमोत्तराः सन्तु १, एवं सत्यगारस्थेष्वेव तदस्त्वित्यत आह-'अगारस्थेभ्यश्च सर्वेभ्य' इति अनुमतिवर्जसर्वोत्तमदेशविरतिप्राप्तेभ्योऽपि साधवः संयमोत्तराः, परिपूर्णसंयमत्वात्तेषां, तथा च वृद्धसम्प्रदायः-एगो सावगो साहुं पुच्छति-सावगाणं साहूणं किमंतरं?, साहुणा भण्णतिसरिसवमंदरंतरं, ततो सो आउलीहूओ पुणो पुच्छति-कुलिंगीणं सावगाण य किमंतरं?, तेण भण्णति-तदेव सरिसवमंदरंतरंति, ततो समासासितो, जतो भणियं-"देसे कदेसविरया समणाणं सावगा सुविहियाणं । जेसिं परपासंडा सतिमपि कलं न अग्छति ॥ १॥" तदनेन तेषां चारित्राभावदर्शनेन पण्डितमरणाभाव एव समर्थित इति | सत्रार्थः ॥२०॥ ननु कुप्रवचनभिक्षवोऽपि विचित्रलिङ्गधारिण एवेति कथं तेभ्योऽगारस्थाः संयमोत्तराः, अत आह चीराजिणं निगिणिणं, जडी संघाडि मुंडिणं । एयाईपि न तायंति, दुस्सीलं परियागतं ॥२१॥ व्याख्या-चीराणि च-चीवराणि अजिनं च-मृगादिचर्म चीराजिनं 'णिगिणिणं'ति सूत्रत्वान्नाश्यं 'जडि'त्ति १ एकः श्रावकः साधुं पृच्छति-श्रावकाणां साधूनां (च) किमन्तरम् ?, साधुना भण्यते-सर्षपमन्दरान्तरम् , ततः स व्याकुलीभूतः पुनः पृच्छति-कुलिङ्गिनां श्रावकाणां च किमन्तरम् ?, तेन भण्यते तदेव सर्षपमन्दरान्तरमिति, ततः समाश्वस्तः, यतो भणितम्देशैकदेशविरताः श्रमणानां श्रावकाः मुविहितानाम् । येषां परपाषण्डाः शतीमपि कलां नार्यन्ति ॥१॥ * * दीप अनुक्रम [१४९] SAntaram मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 498~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy