________________
आगम
(४३)
प्रत
सूत्रांक
||१९||
दीप
अनुक्रम
[१४७]
उत्तराध्य.
बृहद्वतिः
॥२४९॥
Amadom
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||१९||
निर्युक्ति: [२३५...]
अध्ययनं [ ५ ],
गृहस्थानां दूरापास्तमेव, अत एवाह - नेदं पण्डितमरणं 'सधेसु गारिसु' चि सर्वेषामगारिणा गृहिणां, चारित्रिणामेव तत्सम्भवात्, तथात्वे च तेषामपि तत्त्वतो यतित्वाद्, उभयत्र विषयसप्तम्यन्ततया वा नेयं, यथा चैतदेवं तथोपपत्तित आह-नाना - अनेकविधं शीलं - प्रतं स्वभावो वा येषां ते नानाशीलाः 'अगारस्था' गृहस्थाः, तेषां हि नैकरूपमेव शीलं किन्त्वनेकभङ्गसम्भवादनेकविधं, देशविरतिरूपस्य तस्यानेकधाऽभिधानात् सर्वविरतिरूपस्य च तेष्वसम्भवात् 'विषमम्' अतिदुर्लक्षतयाऽतिगहनं विसदृशं वा शीलमेषां विषमशीलाः, के ते १- भिक्षवः, न हि सर्वेऽप्यनिदानिनोऽविकलचारित्रिणो वा तत्कालं म्रियन्ते जिनमतप्रतिपन्ना अपि, तीर्थान्तरीयास्तु दूरोत्सारिता एव तेषु हि गृहिणस्तावदत्यन्तं नानाशीला एव यतः केचिद्गृहाश्रमप्रतिपालनमेव महात्रतमिति प्रतिपन्नाः, अन्ये तु सप्त शिक्षापदशतानि गृहिणां प्रतमित्याद्यनेकधैव ब्रुवते, भिक्षवोऽप्यत्यन्तं विषमशीला एव, यतस्तेषु केषा| ञ्चित्पञ्चयमनियमात्मकं व्रतमिति दर्शनम्, अपरेषां तु कन्दमूलफलाशितैव इति, अन्येषामात्मतत्त्वपरिज्ञानमेवेति विसदृशशीलता, न च तेषु कचिदविकलचारित्रसम्भव इति सर्वत्र पण्डितमरणाभाव इति सूत्रार्थः ॥ १९ ॥ विषमशीलतामेव भिक्षूणां समर्थयितुमाह
संति एगेहि भिक्खूहिं, गारत्था संजमुत्तरा । गारत्थेहि य सम्वेहिं, साहवो संजमुत्तरा ॥ २० ॥ व्याख्या- 'सन्ति' विद्यन्ते 'एकेभ्यः' कुप्रवचनेभ्यो भिक्षुभ्यः 'गारत्थ'ति सूत्रत्वादगारस्थाः संयमेन-देश
For Parnasse Ord
अकाममरणाध्य.
~ 497~
॥२४९॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः