SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [--1/ गाथा ||१५|| नियुक्ति: [२३५...] (४३) प्रत सूत्रांक ||१५|| विशेषेणोलल्य न धर्मोऽधर्मः, न विपक्षेऽपि वर्तते इति धर्मप्रतिपक्षः, तं-हिंसादिकं 'प्रतिपद्य' अभ्युपगम्य / 'बालः' अभिहितरूपो मरणं-मृत्युस्तस्य मुखमिव मुखं मृत्युमुख-मरणगोचरं 'प्रासो' गतः, किमित्याह-अक्षे भन्न इव शोचति, किमुक्तं भवति ?-यथा-अक्षभने शाकटिकः शोचति तथाऽयमपि स्वकृतकर्मणामिहैव मारणान्तिकवेदनात्मकं फलमनुभवन्नात्मानमनुशोचति, यथा हा किमेतजानताऽपि मयैवमनुष्ठितमिति सूत्रार्थः ॥१५॥ शोचना-12 नन्तरं च किमसौ करोतीत्याह तओ से मरणंतंमि, वाले संतस्सई भया । अकाममरणं मरई, धुत्ते वा कलिणा जिए ॥ १६ ॥ व्याख्या-तत'इत्यातकोत्पत्ती यच्छोचनमुक्तं तदनन्तरं 'से' इति स मरणमेवान्तो मरणान्तस्तस्मिन् , उपस्थित इति शेषः, 'बालों' रागाद्याकुलितचित्तः 'संत्रस्यति' समुद्विजते विभेतीतियावत् , कुतः १-'भयात् ' नरकगतिग-2 मनसाध्वसाद, अनेनाकामत्वमुक्तं, स च किमेवं विभ्यत् मरणाद्विमुच्यते ? उत नेत्याह-अकामस्य-अनिच्छतो मरण|मकाममरणं तेन, सूत्रे चार्यत्वाद्वितीया, "म्रियते' प्राणांस्त्यजति, क इव कीदृशः सन् ?-'धूर्त इव' द्यूतकार इव, वाशब्दस्योपमार्थत्वात् , 'कलिना' एकेन, प्रक्रमात् दायेन, जितः सन्नात्मानं शोचति, यथा खयमेकेन दायेन जितः| | सन्नात्मानं शोचति तथाऽसावपीत्वरैर्विपाककटुभिः सङ्क्लेशबहुलैर्मनुज भोगैर्दिव्यसुखं हारितः शोचन्नेव नियत इति | सूत्रार्थः ॥ १६ ॥ प्रस्तुतमेवार्थ निगमयितुमाह दीप अनुक्रम [१४३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 494~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy