________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५],
मूलं [-]/ गाथा ||१३|| नियुक्ति: [२३५...]
(४३)
आमरणाम
प्रत सूत्रांक ||१३||
उत्तराध्य. मभिः' गमिष्यमाणगत्यनुरूपैः तीव्रतीव्रतराद्यनुभावान्वितैर्गच्छंस्तदनुरूपमेव स्थानं, 'स' इति वालः, 'पश्चादि'त्याबृहद्वृत्तिः IAयुपि हीयमाने 'परितप्यते' यथा धिङ् मामसदनुष्ठायिनं, किमिदानी मन्दभाग्यः करोमि ? इत्यादि शोचत इति ।
सूत्रार्थः ॥ १३ ॥ अमुमेवार्थ दृष्टान्तद्वारेण दृढयन्नाह॥२४७॥ जहा सागडिओ जाणं, संमं हिचा महापहं । विसमं मग्गमोतिषणो, अक्खभग्गंमि सोयह ॥१४॥
व्याख्या-'यथे'त्युदाहरणोपन्यासार्थः, शक्नोति शक्यते वा धान्यादिकमनेन वोढुमिति शकटं तेन चरति शाकटिकः-गलीवाहकः 'जाणं'ति जाननवबुध्यमानः 'समम्' उपलादिरहितं 'हित्वा'त्यक्त्वा, कम् ?-महांश्चासौ विस्तीर्णतया प्राधान्येन च पन्थाश्च महापथः, 'ऋक्पूरब्धूःपथामानक्षे (पा०५-४-७४) इत्यकारः समासान्तस्तं, 'विषमम्' उपलादिसलं 'मार्ग' पन्थानं 'ओतिन्नो'त्ति अवतीर्ण:-गन्तुमुपक्रान्तः, पठ्यते च-'ओगाढो'त्ति तत्र, चावगाढ आरूढः प्रपन्न इति चैकोऽर्थः, अनीते नवनीतादिकमित्यक्षो-धूः तस्य भङ्गो-विनाशः अक्षभङ्गः तस्मिन् , पाठान्तरतश्चाक्षे भने, शोचते यथा धिम् मम परिज्ञानं यजाननपीथमपायमवाप्तवानिति सूत्रार्थः ॥ १४॥ सम्प्रत्युपनयमाह
एवं धम्म विउकम्म, अहम्म पडिवजिया। वाले मचुमुहं पत्ते, अक्खे भग्गे व सोयह ॥१५॥ व्याख्या-'एव'मिति शाकटिकवद् 'धर्म' क्षान्त्यादिकं यतिधर्म सदाचारात्मकं वा 'विउक्कम्म'त्ति व्युत्क्रम्य
दीप
अनुक्रम [१४१]
॥२४७॥
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 493~