________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१],
मूलं -1/ गाथा ||१|| नियुक्ति: [३०]
(४३)
**
प्रत सूत्रांक
||१||
भावो, घटे दृष्टं चतुष्टयम् ॥ १॥ तत्रापि नाम नाकारमाकारो नाम नो विना । तौ विना नापि चान्योऽन्यमुत्तरा-श बपि संस्थिती ॥२॥ मयूराण्डरसे यद्ववर्णा नीलादयः स्थिताः । सर्वेऽप्यन्योऽन्यमुन्मिनास्तद्वन्नामादयो घटे ॥३॥ इत्थं चैतत् , परस्परसव्यपेक्षितयैवाशेषनवानां सम्यग्मयत्वात् , इतरथा 'उत्पादव्ययधीव्ययुक्तं सदि'ति प्रत्यक्षादिप्रमाणप्रतीतसलक्षणानुपपत्तेश्च । किञ्च-शब्दादपि घटादेर्नामादिभेदरूपेणैव घटाद्यर्थे बुद्धिपरिणामो जायते, इत्यतोऽपि नामादिचतूरूपतैव सर्वस वस्तुनः, उक्तं च-"नामादिभेदसद्दत्यचुद्धिपरिणामभावओ णिययं । जं वत्थु अस्थि लोए चउपज्जायं तय सघं ॥१॥" ततश्च-चतुष्काभ्यधिकस्सेह, न्यासो योऽन्यस्य दयते । एतदन्तर्गतः सोऽपि, ज्ञातव्यो धीधनान्वितैः ॥ १॥ इत्यलं प्रसङ्गेन । सम्प्रति नियुक्तिरनुश्रि (स्त्रि) यते-तत्र नामस्थापने आगमतो नोआगमतश्च ज्ञशरीरभव्यशरीररूपश्च द्रव्यसंयोगः सुगम इति मन्वानो व्यतिरिक्तद्रव्यसंयोगमभिधातुमाह--'द्विविधस्त्वि'ति द्विविध एव, द्रव्येण द्रव्यस्य वा, 'स'मिति सङ्गतो योगः संयोगः, संयोगद्वैविध्यमेवाह-संयुक्तमेव संयुक्त
कम्-अन्येन संश्लिष्टं, तस्य संयोगो-वस्त्वन्तरसम्बन्धः संयुक्तकसंयोगो ज्ञातव्यः, 'इतरेतर' इति इतरेतरसंयोगः, 18/चः समुच्चये 'एवः' अवधारणे, इत्थमेव द्विविध एष संयोग इति गाथासमासार्थः ॥ ३०॥ विस्तरार्थ त्वभिधित्सुः दायथोद्देशे निर्देश' इति न्यायतः संयुक्तकसंयोगं भेदेनाह
१ नामादिभेदशब्दार्थबुद्धिपरिणामभावतो नियतम् । यदस्त्वस्ति लोके चतुष्पर्यायं तकत् सर्वम् ॥ २॥
**--
दीप अनुक्रम
[१]
%
ainatorary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 48~