________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५],
मूलं [-]/ गाथा ||१३...|| नियुक्ति: [२१६]
(४३)
प्रत सूत्रांक ||१३||
व्याख्या-'एवमेव' यथाऽऽवीचिमरणं द्रव्यक्षेत्रकालभवभावभेदतः पञ्चविधं, तथाऽवधिमरणमपीत्यर्थः । तत्वरूपमाह-यानि मृतः, सम्प्रतीति शेषः, तानि चैव 'मरइ पुणो'त्ति आर्षत्वात्तिव्यत्ययेन मरिष्यति पुनः, किमुक्तं । भवति ?-अवधिः-मर्यादा, ततश्च यानि नारकादिभवनिवन्धनतयाऽऽयुःकर्मदलिकान्यनुभूय म्रियते, यदि पुनस्तान्येवानुभूय मरिष्यति तदा तद् द्रव्यावधिमरणं, सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां पुनर्ग्रहणम् , परिणामवैचित्र्याद्, एवं क्षेत्रादिष्वपि भावनीयं । पश्चाद्धेनाऽऽत्यन्तिकमरणमाह
एमेव आइयंतियमरणं नवि मरइ ताइ पुणो ॥ २१६ ॥ व्याख्या-'एवमेव' अवधिमरणवदात्यन्तिकमरणमपि द्रव्यादिभेदतः पञ्चविधं, विशेषस्त्वयम्-'गावि मरइ ताइ ४ त पुणोति अपिशब्दस्दैवकारार्थत्वान्नैव तानि द्रव्यादीनि पुनर्मियते, इदमुक्तं भवति-यानि नरकाद्यायुष्कतया कर्म
दलिकान्यनुभूय म्रियते मृतो वा न पुनस्तान्यनुभूय मरिष्यति, एवं क्षेत्रादिष्वपि वाच्यं, त्रीण्यपि चामून्यवीच्यविध्यात्यन्तिकमरणानि प्रत्येकं पञ्चानां द्रव्यादीनां नारकादिगतिभेदेन चतुर्विधत्वाविंशतिभेदानीति गाथार्थः ॥२१६ साम्प्रतं बलन्मरणमाहसंजमजोगविसन्ना मरंति जे तं वलायमरणं तु । इंदियविसयवसगया मरति जे तं वस तु ॥२१७॥
दीप अनुक्रम [१२८]
-- Next
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 462~