________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५],
मूलं [-] / गाथा ||१३...|| नियुक्ति: [२१५]
(४३)
मरणाध्य.
॥२३॥
प्रत सूत्रांक ||१३||
उत्तराध्याचीचीति संज्ञा संजाता अस्मिंस्तारकादित्वात् 'तदस्य सातं तारकादिभ्य इतजि' (पा०५-२-४६) त्यनेनेत्यावीबृहद्भुत्तिः
चिसंज्ञितम् , अथवा वीधि-विच्छेदस्तदभावादबीचि तत्संज्ञितम् , उभयत्र प्रक्रमान्मरणं, यद्वा संज्ञितशब्दः प्रत्येक-2 मभिसम्बध्यते, ततश्च अनुसमयसंज्ञित-निरन्तरसंज्ञितम् अवीचिसंज्ञितमिति एकाधिकान्येतानि, 'तदि' त्यावीचिमरणं 'भणन्ति' प्रतिपादयन्ति पञ्चविधं' पञ्चप्रकारं, गणधरादय इति गम्यते, अनेन च पारतव्यं द्योतयति, तदेवाह-'दवेत्ति द्रव्यावीचिमरणं 'खेत्तेत्ति क्षेत्रावीचिमरणं 'काले'त्ति कालावीचिमरणं भवे यत्ति भवाबीचिमरणं च 'भावे य'त्ति भावावीचिमरणं च, संसार इत्याधारनिर्देशः, तत्रैव मरणस्य सम्भवात् , तत्र द्रव्यावीचिमरणं नाम यन्नारकतिर्यग्नरामराणामुत्पत्तिसमयात् प्रभृति निजनिजायुःकर्मदलिकानामनुसमयमनुभवनाद्विचटनं, तच्च नारकादिभेदाचतुर्विधम् , एवं नरकादिगतिचातुर्विध्यापेक्षया तद्विपयं क्षेत्रमपि चतुर्दैव, ततस्तत्वाधान्यापेक्षया क्षेत्रावीचिमरणमपि चतुर्द्धव, 'काल'इति यथाऽऽयुष्ककालो गृह्यते, न त्वद्धाकालः, तस्य देवादिष्वसम्भवात् , स च देवायुष्ककालादिभेदाचतुर्विधः, ततस्तत्प्राधान्यापेक्षया कालावीचिमरणमपि चतुर्विधम् , एवं नरकादिचतुर्विधभवा
पेक्षया भयावीचिमरणमपि चतुर्धेव, तेषामेव च नारकादीनां चतुर्विधमायुःक्षयलक्षणं भावं प्राधान्येनापेक्ष्य भावा-IMIR३॥ दावीचिमरणमपि चतुर्थैव वाच्यमिति गाथार्थः ॥ २१५ ॥ अधुनाऽवधिमरणमाह-.
एमेव ओहिमरणं जाणि मओ ताणि चेव मरइ पुणो।
दीप अनुक्रम [१२८]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 461~