________________
आगम
(४३)
प्रत
सूत्रांक
||१३||
दीप
अनुक्रम
[१२८]
*%%%
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययनं [ ५ ],
मूलं [ - ] / गाथा || १३...||
निर्युक्ति: [२०८]
उत्तराध्ययनेषु पञ्चममध्ययनम् ।
॥ उक्तं चतुर्थमध्ययनं साम्प्रतं पञ्चममारभ्यते, अस्य चायमभिसम्बन्धः -- अनन्तराध्ययने 'कात् गुणान् यात्रच्छरीरस्य भेद इत्यभिदधता मरणं यावदप्रमादोऽनुवर्णितः, ततो मरणकालेऽप्यप्रमादो विधेयः, स च मरणविभागपरिज्ञानत एव भवति, ततो हि बालमरणादि हेयं हीयते पण्डितमरणादि चोपादेयमुपादीयते, तथा च तचतोऽप्रमत्तता जायते इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्यानुयोगद्वार चतुष्टयमुपवर्ण्य तावद्यावन्नामनिष्पन्ननिक्षेपे 'अकाममरणीयम्' इति नाम, तत्र च काममरणप्रतिपक्षोऽकाममरणम्, अतः कामानां मरणस्य च निक्षेपः कार्यः, तत्र काममरणयोर्निक्षेपं प्रतिपादयितुमाह नियुक्तिकृत्
कामाण उणिक्खेवो चउविहो छविहो य मरणस्स | कामा पुबुद्दिट्ठा पगयमभिप्पेय कामेहिं ॥ २०८ ॥
व्याख्या - काम्यन्त इति कामास्तेषां तुः पूरणे, निक्षेपश्चतुर्विधः, षड्विधश्च मरणस्य, भवतीत्युभयत्र गम्यते, तत्र कामाः पूर्वोद्दिशः पूर्व- श्रामण्यपूर्वकनानि दशवैकालिकद्वितीयाध्ययने उद्दिष्टाः - कथिताः, तत्र तेषामनेकधा वर्णनात्, यैरत्र प्रकृतं तान् दर्शयितुमाह-'प्रकृतम्' अधिकृतम्, 'अभिप्रेतकामैः' इच्छाकामैरिति गाथार्थः
Education intemational
Forest
१८०%
~456~
www.lincibrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः अथ अध्ययनं ५ "अकाममरणीय" आरभ्यते