________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४],
मूलं [--] / गाथा ||७|| नियुक्ति: [२०७...]
(४३)
प्रत
सूत्रांक
||७||
तकर्तव्येषु यतितव्यमिति प्रज्ञा-बुद्धिरस्येति-आशुप्रज्ञः, किमिति आशुप्रज्ञः, यतो घूर्णयन्तीति घोराः-निरनु कम्पाः, सततमपि प्राणिनां प्राणापहारित्वात् ,क एते?-'मुहूर्ताः' कालविशेषाः,कदाचिच्छारीरपलाद पोरा अप्यमी न प्रभविष्यन्तीत्यत आह-'अबलं' बलविरहितं न मृत्युदायिनो मुहूर्तान् प्रति सामर्थ्यवत् किं तत् ?-शरीरम् , एवं तर्हि किं कृत्यमित्याह-'भारण्डपक्खीव चरऽप्पमत्तो इति पतत्यनेनेति पक्षः सोऽस्यास्तीति पक्षी भारण्डश्चासौ पक्षीस
च भारण्डपक्षी स यद्वदप्रमत्तश्चरति तथा त्वमपि प्रमादरहितश्चर-विहितानुष्ठानमासेवख, अन्यथा हि यथाऽस्य भार-4 8|ण्डपक्षिणः पक्ष्यन्तरेण सहान्तवेर्तिसाधारणचरणसम्भवात् स्वल्पमपि प्रमाद्यतोऽवश्यमेव मृत्युः तथा तवापि संयमजीवितादू भ्रंश एवं प्रमाद्यत इति सूत्रार्थः ॥ ६॥ अमुमेवार्थ स्पष्टयन्नाह
चरे पयाई परिसंकमाणो, जं किंचि पास इह मन्नमाणो।
लाभंतरे जीविय वूहइत्ता, पच्छा परिणायमलावधंसी॥७॥ (सूत्रम्) व्याख्या-'चरेत्' गच्छेत् 'पदानि' पादविक्षेपरूपाणि 'परिशङ्कमानः' अपायं विगणयन् , किमित्येवमत आह'यत्किञ्चिद् ' गृहस्थसंस्तवाद्यल्पमपि पाशमिव पाशं संयमप्रवृत्ति प्रति खातन्त्र्योपरोधितया 'मन्यमानो' जानानः, यद्वा 'चरेदिति संयमाध्वनि यायात् , किं कुर्वन् ?--‘पदानि' स्थानानि, धर्मस्येति गम्यते, तानि च मूलगुणादीनि
दीप अनुक्रम [१२२]
~ 433~