________________
आगम
(४३)
प्रत
सूत्रांक
॥४६॥
दीप
अनुक्रम [ ९५]
उत्तराध्य.
बृहद्वृत्तिः
॥१७६॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१...] / गाथा ||४६...||
अध्ययनं [३],
Education intimational
भवदाशयः -- सावधि स्यादभिष्वनि, रहिणामित्वरं यथा । प्रत्याख्यानं तथा चेदं यावज्जीवं यतेरपि ॥ १ ॥ प्रयोगः- यत्परिमाणवत् प्रत्याख्यानं तत्साभिष्वङ्गं यथा गृहिणामित्वरप्रत्याख्यानं, परिमाणवच यतेरपि यावज्जीवं सर्व| सावद्यप्रत्याख्यानमित्ययमनैकान्तिको हेतुः तथाहि -किमत्र परिमाणवत्त्वमात्रेण साभिष्वङ्गता साध्यते उत आशं सयाऽपि १, प्रथमपक्षे किं यतेरद्धाप्रत्याख्यानमस्ति न वा १, यद्यस्ति किं पौरुष्यादिपदोपेतमितरथा वा १, यदि पौरुष्यादिपदोपेतं किं न परिणामवत्त्वेन साभिष्वङ्गता ?, अथ न समतास्थितत्वात् तर्हि परिमाणवत्त्वमनैकान्तिकम्, अथानभिमतमेव तत्र पौरुष्यादिपदोपादानम्, एवं सति प्रत्रज्यादिन एवानशनापत्तिः तथा च "गिप्फादिया य सीसा दीदो परिवालितो य परियातो' इत्याद्यागमविरोधः, न चाद्धाप्रत्याख्यानं नास्त्येव यतेरिति पक्षः, 'अणोगतमइकंत' इत्यागमेन तस्याभिधानात् द्वितीयपक्षे तु नैवमस्याशंसा – यथा भवान्तरे सावद्यमहं सेविष्ये, येन साभिष्वङ्गता स्यात् यदपि यावज्जीवेति पदोचारणं तदपि व्रतभङ्गभयादेव तदुक्तम्- "वर्थभंगभयाउ थिय जावजीवंति णिहिं" किञ्च परिणामवत्त्वेन साभिष्वङ्गतां साधयतस्तवाकूतमपरिमाणं प्रत्याख्यानमिति, तत्र च नत्रा परिमाणाभावमात्रमुच्यते वस्त्वन्तरविधिर्वा ?, यदि परिमाणाभावमात्रं तदा तस्याभिष्वङ्गहेतुत्वेनैव निषेधः, तद्धेतुत्वं १ निष्पादिताश शिष्याः दीर्घः परिपालितच पर्यायः । २ अनागतमतिक्रान्तं । ३ प्रतभङ्गभयादेव यावज्जीवमिति निर्दिष्टम् ॥
For Fans Only
निर्युक्तिः [१७७]
~353~
चतुरङ्गीया ध्ययनम्
॥१७६॥
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः