________________
आगम
(४३)
प्रत
सूत्रांक
॥४६॥
दीप
अनुक्रम [५]
उत्तराध्य.
बृहद्वृत्तिः
॥१६३॥
Education into
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१...] / गाथा ||४६...||
अध्ययनं [३],
ध्ययनम्
तर्हि प्रत्यक्ष निराकृतः पक्षो, द्रव्यरूपेणावस्थितस्यैव वस्तुनो दर्शनात्, अन्यथा द्वितीयादिसमयेषु वस्तुनोऽभावप्रसङ्गः, चतुरङ्गीया वस्त्वन्तरोत्पत्तेरदोष इति चेत् किं न तद्भेदेन प्रतिभाति १, अथ माया गोलकवत्सादृश्यात्, तन्न, प्रत्यक्षेणैकत्वग्रहादेव भेदाप्रतिभासात्, अथ भ्रान्तमेवैकत्वग्राहि प्रत्यक्षम्, एवं च सति चक्रकाख्यो दोषः, एकत्वग्राहिणो हि प्रत्यक्षस्य भ्रान्तत्वं प्रकृतानुमानप्रामाण्ये, तब सादृश्याद्भेदाप्रतिभासे, स चैकत्वग्राहिणः प्रत्यक्षस्य भ्रान्तत्वे, तदपि प्रकृतानुमानप्रामाण्ये इति तदेवावर्त्तते, ऐहिकामुष्मिकव्यवहारविलुभिश्च सर्वथा नाशे, तथा चाह - "तित्ती समो किलामो सारिक्ख विपक्खपचयाईणि । अज्झयणं झाणं भावणा य का सबणासम्मि ? || १|| अन्नन्नो पइगासं भोत्ता अन्नोन्नंसोवि का तित्ती ? । गन्तादओवि एवं इय संववहारवोच्छिती ॥२॥ अथ सन्तानाश्रयो व्यवहारः, सन्तानोऽपि सन्तानिभ्यः किं भिन्नो नवा ?, यदि भिन्नो वस्तुसन्न वा १, यदि न वस्तुसन्, किं तेन शशविषाणेनेव कल्पितेन ?, वस्तुसस्वेऽपि क्षणिकोऽक्षणिको वा ?, यद्यक्षणिकस्तेनैव प्रकृतानुमानव्यभिचारः, क्षणिकत्वे च तदयस्यैव व्यवहार बिलुप्तिः, अथाभिन्नः, तथाहि सदशापरापरक्षणप्रबन्धः सन्तानः, स च सन्तानिन एव, तदसत्, यतः सर्वथोच्छेदे प्राग्भावित्वमेव कारणस्य कारणत्वं, तेच विसदृशक्षणापेक्षयाऽपि समानमिति कथं सरशक्षणस्यैवोत्पत्तिः १ येन तत्प्रबन्धः
निर्युक्ति: [१७०]
१ तृप्तिः श्रमः मः सादृश्यं विपक्षः प्रत्ययादीनि । अध्ययनं ध्यानं भावना च का सर्वनाशे ? ॥१॥ अन्योऽन्यः प्रतिमासं भोक्ताऽन्योऽन्यः का तृप्तिः ? गन्त्रादयोऽन्येवमिति संव्यवहारव्युच्छित्तिः ॥ २ ॥ २ अन्ते न सोऽवि (वि०)
Forest Use Only
~327~
॥ १६३॥
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः