________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [...] / गाथा ||४६...||
नियुक्ति: [१६८]
(४३)
प्रत
सूत्रांक
2
%
||४६||
मन्त्सत्वात् , तन्नैयत्वं च निरूपणायां पर्यन्तभवनात् , तन्नियमोऽपि विवक्षानियमादिति, एवं सति चक्रवत् पुनः पुनरावर्त्तते इति, यदि च पूरणत्वमन्त्यस्य विशेषः तदा तच्छेषप्रदेशापेक्षमेवेत्यन्त्याविनाभावित्वे तदपिनाभाबित्वमपि । बलादापततीति सकलप्रदेशाविनाभावित्वात्तद्वात्मकत्वसिद्धिः, नाप्युपकारित्वं विशेषः, यतस्तदन्येषामपि कथं न ?, किमात्मप्रदेशा एव न ते , यद्वाऽऽत्मप्रदेशत्वेऽप्येकका इति, न तावदाद्यः पक्षः, अशेषाणामात्मप्रदेशत्वेन वादिनतिवादिनोरिष्टत्वात् , अथात्मप्रदेशत्वेऽप्येकका इति, एकत्वं त्वन्मतान्त्यप्रदेशसहायकाभावात् परस्परसाहायकविरहतो वा', यदि त्वन्मतान्त्यप्रदेशसहायकाभावात् शेषप्रदेशानामनुपकारित्वं, त्वन्मतस्यान्त्यस्यापि तत्साहायका
सत्त्वात् तदस्तु, युक्तं च बहूनामुपकारित्वम् , एकस्य तु तदभावो, यदुक्तम्-"जुत्तो य तदुवयारो देसूणे ण उ पएस-1 कामेत्तमि । जह तंतूणमि पडे पडोवयारो न तंतुंमि ॥१॥" नापि परस्परसहायकासच्चात् , यतस्त किं त्वत्कल्पितान्त्यप्रदेशतो न्यूनत्वे तदभावे वा ?, यदि न्यूनत्ये तत्किं शक्तितोऽवगाहनातो वा!,न तावच्छक्तितः, एकपटतन्तूनामिवैकात्मप्रदेशानां तम्यूनत्वायोगात्, नाप्यवगाहनातः, सर्वेषामप्यमीषामेकैकाकाशप्रदेशावगाहित्वेन तुल्यत्वात् , तदभावपक्षे चान्त्यप्रदेशस्येव शेषप्रदेशानामप्यात्मोपकारित्वं सिद्धमेव, आगमाभिहितत्वं च विशेषकमुच्यमानं तदन्यतामेव सूचयति, यतः स्फुटमेवागमवचनं "कसिणे पडिपुण्णे लोगागासपएसतुल्लपएसे जीवत्ति बत्तयं सिय" त्ति, ततश्च१ युक्तश्च तदुपधारो देशोने न तु प्रदेशमात्रे । यथा तन्तूने पटे पटोपचारो न तन्तौ ॥१॥
दीप अनुक्रम
%-8
[९५]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~318~