________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...||
नियुक्ति: [१५९]
(४३)
प्रत
सूत्रांक
||४६||
माणुस्स खित्त जाई कुल रूवारोग्ग आउयं बुद्धी। सवणुग्गह सद्धा संजमो अ लोगमि दुलहाई॥१५९॥ ।
व्याख्या-'मानुष्यम्' मनुष्यभावः 'क्षेत्रम्' आर्य जातिः' मातृसमुत्था 'कुल' पितृसमुत्थम् 'रूपम् ' अन्यूनाङ्गता 'आरोग्य' रोगाभावः 'आयुष्यं' जीवितं 'बुद्धिः' परलोकप्रवणा 'श्रवणं' धर्मसम्बद्धम् 'अवग्रहः' तदवधारणम् , अथवा श्रवणाः-तपखिनः तेषामवग्रहः-मुन्दरा एत इत्यवधारणं श्रवणावग्रहः, श्रद्धा संयमश्च प्राग्वत् , एतानि लोके दुर्लभानि, प्राक् चतुर्णा दुर्लभत्वमुक्तम् , इह तु मानुषत्वं क्षेत्रादीनामायुष्कपर्यन्तानामुपलक्षणं, श्रवणं
च बुद्ध्यवग्रहयोः, पुनश्च मानुषत्वादीनामिहाभिधानं विशिष्टक्षेत्रादियुक्तानामेवैषां मुक्त्यात्वमिति ख्यापनार्थम् , दाचिदेतत्स्थाने पठन्ति "इन्दियलद्धी निवत्तणा य पजत्ति निरुवहय खेमं । धाणारोग्गं सद्धा गाहग उवओग
अटो य ॥१॥" 'इन्द्रियलब्धिः' पञ्चेन्द्रियप्राप्सिः 'निवर्त्तना च' इन्द्रियाणामेव निष्पादना 'पर्याप्सिः' समस्तपर्या-1 सिता 'णिरुबय'त्ति निरुपहतम् , उपहतेरभावात् , सा च गर्भस्थस्य कुजत्वादिभिर्जातस्य च भित्त्यादिभिः, 'क्षेमम्' देशसौस्थ्यम् 'भ्राणम्' सुभिक्षं विभयो वा आरोग्यम् नीरोगता 'श्रद्धा' उक्तरूपा 'ग्राहकः' शिक्षयिता गुरुः 'उपयोगः' खाध्यायाधुपयुक्तता 'अर्थः' धर्मविषयमर्थित्वम् , एतानि दुर्लभानीति गम्यते, इह च पुनः श्रद्धाग्रहणं तन्मूलत्वादशेषकल्याणानां तस्या दुर्लभतरत्वख्यापनार्थमिति गाथार्थः ॥ १५९॥ यदुक्तं-'मनुष्यादिभावाङ्गानि दुर्लभानि' इति, तत्र मानुष्याजदुर्लभत्वसमर्थनाय दृष्टान्तमा(ताना)ह
2YKARX
दीप अनुक्रम
[९५]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति:
~290~