SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं -1, नियुक्ति: [२८] (४३) प्रत सूत्रांक [-] नात्मिकया तयाऽधिकार इति सैव भण्यते-तत्रोकीर्तनं विनयश्रुतं परीपहाध्ययनं चतुरङ्गीयमित्यादि संशब्दनं, |गणनं सङ्ख्यानं, तब पूर्वानुपूर्वीपश्चानुपूर्वीअनानुपूर्वीभेदतस्विविध, तत्र पूर्वानुपूळ गण्यमानमिदमध्ययनं प्रथम, पश्चानुपूर्व्या षटत्रिंशत्तमम् , अनानुपूर्व्या त्वस्यामेबैकाद्यकोत्तरपत्रिंशद्गच्छगतायां श्रेण्यामन्योऽन्याभ्यासतो द्विरूपोनसङ्ख्याभेदं भवति, उक्तं च-"एकाद्या गच्छपर्यन्ताः, परस्परसमाहताः । राशयस्त द्धि विज्ञेयं, विकल्पगणिते फलम् ॥१॥" इह चासम्मोहाय षट्पदाङ्गीकारतः प्रस्तारानयनोपाय उच्यते-तत्र चैकादीनि षडन्तानि षट् पदानि ६ स्थाप्यन्ते, तानि चान्योऽन्यं गुण्यन्ते, ततश्च जातानि सप्त शतानि विंशत्युत्तराणि, तेषां चान्त्येन पदेन भागहारः, तत्र लब्धं विंशत्युत्तरं शतं १२०, इयन्तः षष्ठपकी पट्दा न्यस्यन्ते, तदधस्तावन्त एव क्रमेण पञ्चकचतुष्ककत्रिकद्विकककाः स्थाप्याः, इत्थं जातानि षष्ठपती सप्त शतानि विंशत्युत्तराणि । ततो विंशत्युत्तरशतस्य पश्चकेन । भागहारः, तत्र च लब्धा चतुर्विंशतिः २४, तावत्सयाः पञ्चमपको क्रमेण पञ्चकचतुष्कत्रिकद्विकैकका न्यस्याः, जातं विंशत्युत्तरं शतं, तस्य चाधस्तादतनपतिस्थमङ्कमपहाय यथामहत्सङ्ख्यमकविन्यासः, तत्राग्रेतनपतिस्थः ॥पञ्चकस्तत्परित्यागतश्च सर्ववृहत्सङ्ख्यः षट्कश्चतुर्विंशतिवारानधः स्थाप्यते, ततखिकापेक्षया चतुष्को द्विकापेक्षया चत्रिक एककापेक्षया च द्विको बृहत्सङ्ख्यः तत एककश्च तावत एव वारान् न्यसनीयः, जातं पुनर्विशत्युत्तरं शतम् , एवमतनपतिस्थचतुष्कत्रिकहिकैकपरिहारतस्तथैव तावन्नेयं यावत्पश्चमपटावपि पूर्णानि सस शतानि विंशत्युत्तराणि। दीप अनुक्रम [-] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 28~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy