________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||४४||
नियुक्ति: [१२२]
(४३)
5+%
प्रत
E3%-
सूत्रांक
||४४||
गता अपि ज्ञानमुखादय इति नात्र महदन्तरमुत्पश्यामः, उक्तं चाश्वसेनवाचकेन-"आत्मप्रत्यक्ष आत्माऽय"मित्यादि, अथायं न दृग्गोचर इति नास्तीत्युच्यते, नायमप्येकान्तो, यतस्तेनैवोक्तम्-"न च नास्तीह तत् सर्व चक्षुषा यन्न गृह्यते," अन्यथा चैतन्यमपि न दृग्गोचर इति तस्याप्यसत्त्वं स्यात् , अथ तत् खसंविदितमिति सदुच्यते, अयमपि तथाभूत एवेति सन्नस्तु, उक्तं हि-"अस्त्येव चात्मा प्रत्यक्षो, जीवो यात्मानमात्मना । अहमस्मीति संवेत्ति, रूपादीनि यथेन्द्रियैः ॥१॥" इति, किंबहुना ?, यथा चैतन्यमस्तीत्यभ्युपगम्यते तथाऽऽत्माप्यभ्युपगन्तव्यः, तथा चाह-"ज्ञानं स्वस्थं परस्थं वा, यथा ज्ञानेन गृह्यते । ज्ञाता खस्थः परस्थो वा, तथा ज्ञानेन गृह्यताम् ॥१॥” इति । अथ सर्वसम्बन्ध्यनुपलम्भ आत्माभावे हेतुः, अयमप्यसिद्धः, अहमस्मीति प्रत्ययेन प्रतिप्राणि खात्मनः केवलिनां च सर्वात्मनामुपलम्भस्य प्रतिषेदुमशक्यत्वात् । एवमृद्धीनामप्यभावे सर्वसम्बन्ध्यनुपलम्भोऽसिद्धः, स्वसम्बन्धी तु नियतदेशकालापेक्षोऽन्यथा वा?, प्रथमपक्षे को वा किमाह , कचित्कदाचित्तासामनुपलम्भस्य (उपलम्भस्य) चास्माकमपि संमतत्वात् , द्वितीयपक्षे पुनरनैकान्तिकता, देशादिविप्रकष्टानामनुपलम्भेऽपि सत्त्वात् , दृश्यते च कचित् कदाचित् चरणरेणुस्पर्शादितो रोगोपशमादि, ततश्चेहापि कालान्तरे महाविदेहादिषु सर्वकालमृद्ध्यन्तराणामपि सम्भवस्थानुमीयमानत्वात् , यदपि-वञ्चितोऽस्मीति भोगसुखानामनेन शिरस्तुण्डमुण्डनोपवासादिना यातनात्मकेन धर्मानुष्ठानेनेति, तदप्यसमीक्षिताभिधानं, भोगसुखाना दुःखानुषक्तत्वेन तत्त्ववेदिनामनादेयत्वात् , तथा च वात्स्यायनोऽप्याह
-*
दीप अनुक्रम
-
[९३]
-3
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~265~