________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१],
मूलं [-1,
नियुक्ति: [२८]
(४३)
प्रत सूत्रांक [-]
वाघया तदनुगुणं गमनं-संहितादिक्रमेण व्याख्यातुः प्रवर्तनमनुगमो, नयनम्-अनन्तधर्मात्मकस्य वस्तुनो नियतकधर्मावलम्बेन प्रतीतो प्रापणं नयः । क्रमप्रयोजनं च-नानुपादिभिासदेशमनानीतं शास्त्रं निक्षेप्तुं शक्यं, न चौघनिष्पन्नादिभिर्निक्षेपरनिक्षिप्तमनुगन्तुं, नापि सूत्राद्यनुगमेनाननुगतं नयैर्विचारयितुमित्ययमेवैषां क्रमः, तथा च पूज्याः-"दारेकमोऽयमेव उ निक्खिप्पर जेण णासमीवत्थं । अणुगम्मइ णाणत्थं णाणुगमो णयमयविहणो॥१॥" अत्र सङ्ग्रहश्लोका:-'उपक्रमोऽथ निक्षेपोऽनुगमश्च नयाः क्रमात् । द्वाराण्येतानि भिद्यन्ते, द्वेधा प्रेधा द्विधा द्विधा ॥१॥ उपक्रम उपक्रान्तिर्दूरस्थनिकटक्रिया । निक्षेपणं तु निक्षेपो, नामादिन्यसनात्मकः॥२॥
सूत्रस्थानुगतिश्चित्राऽनुगमो नयनं नयः । अनन्तधर्मणोऽर्थस्यैकांशेनेति निरुक्तयः ॥३॥ न्यासदेशागतं शारखं, हिन्यस्यते न्यस्तमेव तत् । अन्वीयतेऽन्विते नीतिस्तेनैतेपामयं क्रमः ॥४॥' इत्थं विनेयस्मरणार्थ भेदनिरुक्तिक्रम-IN
प्रयोजनभाजि द्वाराणि वर्णितानि, तद्वर्णनाच फलादीनि याच्यानीति प्रतिज्ञातं निर्वाहितम् । सम्प्रसेभिरित्थं || प्ररूपितरेषामेव भेदप्रपञ्चनपुरस्सरं प्रक्रान्ताध्ययनं विचार्यते, तत्रोपक्रमो द्विधा--लौकिको लोकोत्तरश्च, तत्राद्यो . नामस्थापनाद्रव्यक्षेत्रकालभावभेदतः पोढा, तत्र च नामतश्चिरतरकालभाविनः सन्निहितकाल एव करणं नामोपक्रमः,M एवं स्थापनोपक्रमोऽपि, द्रव्योपक्रमः सचित्ताचित्तमिश्रभेदात् त्रिविधः, प्रत्येकोऽपि परिकर्मनाशभेदतो द्विविधः, १द्वारक्रमोऽयमेव तु निक्षिप्यते येन नासमीपस्थम् । अनुगम्यते नान्यस्तं नानुगमो नयमतविहीनः ।।१।। २ सोऽप्येकः परिकर्मविना ..
दीप अनुक्रम
[-]
JABERatinintimals
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 24~