________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||२४||
नियुक्ति: [१०८-१०९]
(४३)
प्रत
सूत्रांक
||२४||
वन दीप्येत, सज्वलनकोपमपि न कुर्यादिति सज्वलेदित्युपादानं, किमेवमुपदिश्यत इत्याह-सदृशः' समानो भवति,
सवलन्निति प्रक्रमः, केषां !-'वालानाम्' अज्ञाना, तथाविधक्षपकवत् , यथा-कश्चित् क्षपको देवतया गुणैरावर्जितया दासततमभिवन्यते, उच्यते च-मम कार्यमावेदनीयम् , अन्यदैकन धिरजातिना सह योद्धमारब्धः, तेन च बलवतार
क्षुत्क्षामशरीरो भुवि पातितः ताडितश्च, रात्री देवता वन्दितुमायाता, क्षपकस्तूष्णीमास्ते, ततवासी देवतयाऽभिहितो-भगवन् । किं मयाऽपराद्धं, स प्राह-न तस्य त्वया दुरात्मनो ममापकारिणः किञ्चित्कृतं, सा चावादीत्-न मया विशेषः कोऽप्युपलब्धो यथाऽयं श्रमणोऽयं च धिग्जातिरिति, यतः कोपाविष्टौ द्वावपि समानी सम्पन्नाविति, ततः सती प्रेरणेति प्रतिपन्नं क्षपकेणेति । उक्तमेवार्थ निगमयितुमाह-'तम्ह' ति यस्मात्सरशो भवति वालानां तस्मा|द्भिक्षुने सवलेदिति सूत्रार्थः ॥ २४ ॥ कृत्योपदेशमाह
सोच्चा णं फरुसा भासा,दारुणे गामकंटए।तुसिणीओ उवेक्खिज्जा, ण ताओ मणसी करे॥२५॥(सूत्रम्) ___ व्याख्या-'श्रुत्वा' आकर्ण्य, णमिति वाक्यालङ्कारे 'परुषाः' कर्कशाः 'भाषा' गिरो दारयन्ति मन्दसत्त्यानां संयमविषयां धृतिमिति दारणाः ताः, ग्रामः-इन्द्रियग्रामस्तस्य कण्टका इव प्रामकण्टका:-प्रतिकूलशब्दादयः, कण्टकत्वं चैषां दुःखोत्पादकत्वेन मुक्तिमार्गप्रवृत्तिविघ्नहेतुतया च, तदेकदेशत्वेन परुषभाषा अपि तथोक्ताः, भाषाविशेषणत्वेऽपि चात्राविष्टलिङ्गत्वात् लिङ्गता, 'तूष्णीकः' तूष्णीशीलो न कोपात् प्रतिपरुषभाषी, एवंविधश्च
--
---
दीप अनुक्रम [७३]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 225~