________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||१३||
नियुक्ति: [९३]
(४३)
प्रत
सूत्रांक
||१३||
पकारित्वनिश्चयः, अथ परेषां कषायकारणत्वेन चारित्रवाधकत्वं चीवरस्य, तर्हि धर्मादयोऽपि कस्यचित् कपायकारणं न वा?, न तावन्न, तेऽपि कस्यचित्कषायहेतव इति चीवरयत्तेऽपि हातव्याः, आह च-"अस्थि य किं किंचिजए जस्स व कस्स य कसायबीजं तं । वत्थु ण होज? एवं धम्मोऽवि तुमे ण घेतवो ॥१॥ जेण कसायणिमित्तं जिणोऽवि गोसालसंगमाईणं । धम्मो धम्मपरावि य पडिणीयाणं जिणमयं च ॥२॥" अथैषां मुक्त्यतया कषायहेतुत्वेऽपि न हेयता, तदिहापि समानम् , उक्तं च वाचकसिद्धसेनेन-"मोक्षाय धर्मसिद्धपथै, शरीरं धार्यते यथा। शरीरधारणार्थ च, भैक्षग्रहणमिष्यते ॥ १॥ तचैवोपग्रहार्थाय, पात्रं चीवरमिष्यते । जिनैरुपग्रहः साघोरिष्यते न परिग्रहः ॥२॥” इत्यादि । औदासीन्येनापि न चीवरस्य चारित्रं प्रत्यनिमित्तता, तस्य तदुपकारित्वात् , यच यत्रोप-13 कारिन तत्तस्मिन्नदासीनं, यथा तन्त्वादयः पटे, चारित्रोपकारि च चीवरं, तथाहि-संयमात्मकं चारित्रं, न च तस्य तत्परिहारेण शुद्धिरस्ति, आगमश्च-"किं सक्षमोवयारं करेइ वत्थाइ जइ मई सुणसु । सीयत्ताणं ताणं जलणतणग
१ अस्ति च किं किश्चित् जगति यस वा फस्य वा कषायबीजं तत् । वस्तु न भवेत् । एवं धर्मोऽपि त्वया न ग्रहीतव्यः ॥१॥ येन कषायनिमित्तं जिनोऽपि गोशालसंगमकादीनाम् । धर्मो धर्मपरा अपिच प्रत्पनीकानां जिनमतं च ॥२।। २ किं संयमोपकार करोति वखादि
यदि मतिः शृणु । शीतत्राणं श्राणं ज्वलनतुणगतानां सत्वानाम् ॥११॥ तथा निशि चतुष्कालं स्वाध्यायध्यानसाधनमृषीणाम् । हिममहिकावर्षाMsवश्यायरजआदिरक्षानिमित्तं तु ॥२॥
दीप अनुक्रम [६२]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~193~