________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||३||
नियुक्ति: [८७-८८]
(४३)
ध्ययनम्
उत्तराध्य. बृहद्धृत्तिः ॥८४॥
प्रत
सूत्रांक
||३||
| इति मात्राज्ञो-नातिलौल्यतोऽतिमात्रोपयोगी, कस्येत्याह-अश्यत इत्यशनम्-ओदनादि पीयत इति पान-सौवीरा-14 दि अनयोः समाहारेऽशमपानं तस्य, तथा 'अदीणमणसों' ति सूत्रत्वाददीनमनाः अदीनमानसो वा-अनाकुलचित्तः | 'चरेत्' संयमाध्वनि यायात् , किमुक्तं भवति -अतिवाधितोऽपि क्षुधा नवकोटीशुद्धमप्याहारमवाप्य न लौल्यतोऽतिमात्रोपयोगी तदप्राप्तौ वा दैन्यवान् इत्येवं शुत्परिषह्यमाणा क्षुत्परीषहः सोढो भवतीति सूत्रार्थः । सम्प्रति प्रायद्वारगाथोपक्षिप्तं सूत्रस्पर्श इति त्रयोदशद्वारं व्याचिख्यासुः सूत्रस्पर्शिकनियुक्तिमाह'सुत्तफासे यत्ति । तथाकुमारए नई लेणे, 'सिला पंथे महल्लए । तावस पडिमा सीसे, अगणि निवेअ मुग्गरे ॥ ८७॥ वणे रामे पुरे भिक्खे, संथारे मल्लधारणं । अंगविजा सुए भोमे, सीसस्सागमणे इय ॥ ८८॥ व्याख्या-तत्र सूत्रस्पर्शश्चेति द्वारोषक्षेपः, कुमार इत्यादिना च तद्वर्णनं स्पष्टमेव, नवरं कुमारकादिभिः प्रत्येक द्वाविंशतेरपि परीपहाणामुदाहरणोपदर्शनं, तथाहि-'कुमारकः' क्षुल्लकः, 'लेणं ति लयनं गुहा महहए'त्ति आर्यरक्षितपिता, सूत्रस्पर्शित्वं चास्य सूत्रसूचितोदाहरणप्रदर्शकत्वादिति किश्चिदधिकगाथाद्वयार्थः ।। ८७-८८१ इदानीं नियुक्तिकार एव 'न छिन्दे'इत्यादिसूत्रावयवसूचितं कुमारकेत्यादिद्वारोपक्षिसं च क्षुत्परीषहोदाहरणमाह
दीप अनुक्रम [५]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~170~