________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||२||
नियुक्ति : [८६...]
(४३)
प्रत
3
सूत्रांक
-%
||२||
तृतीया, पाठान्तरं 'दिगिछापरिगते' बुभुक्षाव्याप्ते 'देहे' शरीरे सति, तपोऽस्यास्तीति अतिशायने विनिस्तपखीविकृष्टाष्टमादितपोऽनुष्ठानवान् , स च गृहस्थादिरपि स्यादत आह-'भिक्षुः' यतिः, सोऽपि कीरक्-स्थाम-बलं तदस्य संयमविषयमस्तीति स्थामवान् , भूनि प्रशंसायांवा मतुपप्रत्ययः, अयं च किमित्याह-न छिन्यात्' न द्विधा विदध्यात्, खयमिति गम्यते, न छेदयेद्वा अन्यैः, फलादिकमिति शेषः, तथा न पचेत् खयं, न चान्यैः पाचयेत् , उपलक्षणत्वाच नान्यं छिन्दन्तं वा पचन्तं वाऽनुमन्येत, तत एव च न खयं क्रीणीयात् नापि कापयेत् न च परं क्रीणन्तमनुमन्येत, छेदस्य हननोपलक्षणत्वात् क्षुत्पपीडितोऽपि न नवकोटीशुद्धिवाधां विधत्ते इति गाथार्थः ॥२॥
कालीपत्वंगसंकासे, किसे धमणिसंतए । मत्तन्नोऽसणपाणस्स, अदीणमणसो चरे ॥३॥(सूत्रम्) व्याख्या-काली-काकजचा तस्याः पर्वाणि स्थूराणि मध्यानि च तनूनि भवन्ति ततः कालीपर्वाणीव पर्वाणिजानुकूपरादीनि येषु तानि कालीपर्वाणि, उष्ट्रमुखीवन्मध्यपदलोपी समासः, तथाविधैरोः-शरीरावयवैः सम्यका-II
शते-तपःश्रिया दीप्यत इति कालीपर्वाङ्गसङ्काशः, यद्वा प्राकृते पूर्वापरनिपातस्थातत्रत्वादामो दग्ध इत्यादिवत् अवदियवधर्मेणाप्यवयविनि व्यपदेशदर्शनाचाङ्गसन्धीनामपि कालीपर्वसदृशतायां कालीभिः सकाशानि-सरशान्यङ्गानि यस
स तथा, स हि विकृष्टतपोऽनुष्ठानतोऽपचितपिशितशोणित इत्यस्थिचर्मावशेष एवंविध एव भवति, अत एव च 'कृशः' कृशशरीरः, धमनयः-शिरास्ताभिः सन्ततो-व्याप्तो धमनिसंततः, एवंविधावस्थोऽपि मात्रां-परिमाणरूपा जानाति
%
दीप अनुक्रम
[११]
-5-र
wwjanatarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~169~