SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||84|| दीप अनुक्रम [४८] उत्तराध्य. बृहद्वृत्तिः ।। ७७ । “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||४८...|| अध्ययनं [२] Ja Education intimational वाच्यमिति । 'वेदना' क्षुदादिजनिता असातवेदना, चशब्दात्तदुत्पादकं च परषहः, 'द्वयोस्तु' पारिशेष्यात् सङ्ग्रहव्यबहारयोः पुनर्मतेनेति गम्यते, अयं चानयोरभिप्रायः- यदि तावद्द्विरिनिर्झरजलादि क्षुदादिवेदनाजनकत्वेन परीषद्दः, कथमिव क्षुदादिवेदना न परीषहो, निरुपचरितं परीषद्यत इति परीषद्दलक्षणं वेदनाया एव सम्भवति, उपचरितं तु गिरिनिर्झरजलादौ, तात्त्विकवस्तुनिबन्धनश्रोपचार इति तदभावे तस्याप्यभाव एव स्यात्, 'वेदनां' क्षुदायनुभवा|त्मिकां 'प्रतीत्य' आश्रित्य जीवे परीषह इति ऋजुसूत्रः मन्यत इतीहापि गम्यते, अयमस्वाशयः - सति हि निरुपचतिलक्षणान्वितेऽपि परीषहे स एव परीपहोsस्तु, किमुपचरितकल्पनया ?, ततो निरुपचरितलक्षणयोगाद्वेदनैव परीषदः, सा च जीवधर्मत्वाज्जीवे नाजीव इति वेदनां प्रतीस जीवे परीषह उच्यते, न तु पूर्वेषामिवाजीवेऽपीति, 'शब्दस्ये' ति शब्दाख्यनयस्य साम्प्रतसमभिरूढैवम्भूतभेदतस्त्रिरूपस्य मतेनात्मा - जीवः, परीपह इति प्रक्रमः, पुनःशब्दो विशेषं द्योतयति, विशेषश्च परीषहोपयुक्तत्वम्, अयं द्युपयोगप्रधानः, उपयोगश्चात्मन एवेति परीषहोपयुक्त आत्मैव परीपह इति मन्यते इति गाथार्थः ॥ ८१ ॥ इदानीं वर्त्तनाद्वारमाह वीसं उक्कोसपए वहंति जहन्नओ हवइ एगो । सीउसिण चरिये निसीहिया य जुगवं न वहंति ॥ ८२ ॥ व्याख्या - विंशतिः उत्कृष्टपदे चिन्त्यमाने परीषहाः वर्त्तन्ते, युगपदेकत्र प्राणिनीति गम्यते, 'जघन्यतः' जघन्य| पदमाश्रित्य भवेदेकः परीपहः, ननृत्कृष्टपदे द्वाविंशतिरपि किं नैकत्र वर्त्तन्त इत्याह- 'सीउ सिण 'ति शीतोष्णे चर्या For Fans Only निर्युक्ति: [८१] ~ 156~ परीषहाध्ययनम् २ ॥ ७७ ॥ www.ncbrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy