________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२], मूलं -1/गाथा ||४८...||
नियुक्ति: [८०]
(४३)
प्रत सूत्रांक
||४८||
व्याख्या-एण्यत इत्येषणम्-एपणाशुद्धं, अनेषणीयं-तद्विपरीतं, सोपस्कारत्वाद्यदनादि तस्य, यद्वा 'सुपा सुपो भवन्तीति न्यायादेषणीयस्य अनेषणीयस्य च, 'अग्गहणऽभोयण'त्ति अग्रहणम्-अनुपादानं, कथश्चिदू ग्रहणे वा अभोजनम्- अपरिभोगात्मकं त्रयाणाम्' अर्थान्नैगमसङ्कहव्यवहाराणां नयानां मतेनाध्यासना बोद्धव्येति सम्बन्धः, अमी| हि स्थूलदर्शिनः बुभुक्षादिसहनमन्नादिपरिहारात्मकमेवेच्छन्ति, 'फासुग सहुजुसुत्ताणं'ति शब्दनयानां त्रयाणामृजुसूत्रस्य च मतेन प्रासुकमन्नादि उपलक्षणत्वात् कल्प्यं च गृहतो भुञानस्याप्यध्यासनेति प्रक्रमः; ते हि भावप्रधानतया
भावाध्यासनामेव मन्यन्ते, सा च नाभुआनस्यैव, किन्तु शास्त्रानुसारिप्रवृत्त्या समतावस्थितस्य प्रासुकमेषणीयं च ४ धर्मधूर्वहनार्थं भुजानस्थापीति गाथार्थः ।। ८०॥ सम्प्रति नयद्वारमाह
जं पप्प नेगमनओ परीसहो वेयणा य दुण्हं तु ।वेयण पडुश्च जीवे उज्जुसुओ सदस्स पुण आया ॥८॥ - व्याख्या-'यद् वस्तु गिरिनिर्झरजलादि प्राप्य'आसाद्य क्षुदादिपरीपहा उत्पद्यन्ते नैगमो-नैगमनयो यत्तदोर्नित्याभिसम्बन्धात् तत्परीषह इति वक्तीति शेषः, स खेवं मन्यते-यदि तत् क्षुदाधुत्पादकं वस्तु न भवेत्तदा क्षुदादय एव । न स्युः, तदभावाच किं केन सखत इति परीषहाभाव एव स्यात् , ततस्तद्भापभावित्वात् परीपहख तत् प्रधानमिति । तदेव परीपहः, प्रस्थकोत्पादककाष्ठप्रस्थकवत्, आह-नैकगमत्वान्नैगमस्य कथमेकरूपतव परीषहाणामिहोता, उच्यते, शतशाखत्वादस्य न सर्वभेदाभिधानं शक्यमिति कश्चिदेव क्वचिदुच्यते, एवं शेषनयेष्वपि यथोक्ताशङ्कायां ।
दीप अनुक्रम [४८]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~155~