________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-1 / गाथा ||६८|| नियुक्ति: [५५६...], भाष्यं [१५...]
(४३)
प्रत
सूत्राक
[६८]
दृश्यत एवेति सूत्रार्थः ॥ इत्थं यदुक्तं "संसारत्था य सिद्धा य, दुविहा जीवा वियाहिय"त्ति तत्र सिद्धा उक्ताः, साम्प्रतं संसारिण आह
संसारत्था उजे जीवा, दुविहा ते वियाहिया । तसा य धावरा चेव, थावरा तिविहा तहिं ॥१८॥ संसारस्था इति प्राग्वत्तुशब्दः सिद्धेभ्यः सङ्ग्याकृतविशेषद्योतको ये जीवा द्विविधास्ते व्याख्याताः, वैविध्यमेवाह-प्रसाथ स्थावराश्चैव, स्थावराः 'त्रिविधाः' त्रिप्रकाराः 'तस्मिन्' इति द्वैविध्ये सति, अल्पवक्तव्यत्वाच्च पश्चानिर्देशेऽपि प्रथमतः स्थावराभिधानमिति सूत्रार्थः ॥ तत्रैविध्यमेवाह
पुढवी आउजीवा प, तहेव य वणस्सई । इच्चेए थावरा तिविहा, तेसिं भेए सुणेह मे ॥१९॥ ___ 'पुढवीआउजीवा यत्ति जीवशब्दः प्रत्येकमभिसंवध्यते ततः पृथिव्येय जीवाः पृथिवीजीवाः आपो-जलं ता एवं जीवा अब्जीवाश्थ, तथैव च 'वणस्सइत्ति प्रक्रमाद्वनस्पतिजीवाः, ननु पृथिव्यादीनि जीवशरीराणि न त्वेतान्येव जीयाः, काठिन्यादिलक्षणानि ह्यमूनि जीवाः पुनरुपयोगलक्षणास्तत्कथं पृथिव्यादीन्येव जीवा इत्युक्तम् ?, उच्यते, जीवशरीरयोरन्योऽन्यानुगतत्वेन विभागाभावादेवमुक्तं, न चैतदना, यत उक्तम्-"अन्नोऽनाणुगयाणं इमं च तं चत्ति विभयणमजुत्तं" इत्यादि 'इति' इत्युक्तप्रकारेण 'एते' पृथिव्यादयः स्थावरात्रिविधाः । उत्तरग्रन्थसम्बन्धनार्थ१ अन्योऽन्यानुगतयोरिदं च तश्चेति विभजनमयुक्त
दीप अनुक्रम [१५३२]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1373~