________________
आगम
(४३)
प्रत
सूत्रांक
[४१
-५५]
दीप
अनुक्रम [१४२३
-१४३७]
उत्तराध्य.
बृहद्धतिः
॥ ६६०॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः)
मूलं [-] / गाथा ||४१-५५||
अध्ययनं [३४],
Education intimational
वाक्यालङ्कारे 'उत्कृष्टा' अनन्तरमुक्तरूपा 'सा उ'त्ति सैव 'समयमम्भहिय'त्ति समयाभ्यधिका जघन्येन नीलायाः, 'पलियमसंखिज्ज' ति प्राग्वत्पल्योपमासङ्घयेयश्च भाग उत्कृष्टा स्थितिर्नवरमुक्तहेतोरेव बृहत्तरोऽयमसङ्घयेयभागो गृह्यते । | या नीलायाः स्थितिः खलुत्कृष्टा 'सा उ'त्ति सैव समयाभ्यधिका जघन्येन कापोतायाः पल्योपमासङ्घयेयश्च भाग उत्कृष्टा स्थितिः, एतावदायुषामेव भवनपतिव्यन्तराणामिमे मन्तव्ये, इहाप्युक्तहेतोरेव पूर्वस्मादृहत्तरोऽसङ्ख्यातभागः परिगृद्यते । इत्थं निकायद्वयभाविनीमाद्य लेश्यात्रयस्थितिमुपदर्श्य समस्तनिकायभाविनीं तेजोलेश्या स्थितिमभिधातुं प्रतिज्ञासूत्रमाह- 'तेण 'ति ततः परं प्रवक्ष्यामि तेजोलेश्यां, 'यथे'ति येनावस्थानप्रकारेण सुरगणानां भवति तथेत्युपस्कारः, किमन्यतरनिकायानामेवामीषामुतान्यथेत्याह- भवनपतिवाणमंतरज्योतिर्वैमानिकानां चतुर्निकायानामिति योऽर्थः, 'चः' पूरणे, प्रतिज्ञातमेवाह - पल्योपमं जघन्या उत्कृष्टा 'सागर'त्ति सागरोपमे 'तुः' प्राग्वत् 'द्वे' द्विसङ्ख्ये अधिके-अर्गले, कियतेत्याह-पल्योपमासङ्ख्येयेनेति योगः, भवति तेजस्याः स्थितिरिति प्रक्रमः, इयं च सामान्योपक्रमेऽपि वैमानिकनिकायविषयतयैव नेया, तत्र च सौधर्मेशानदेवानां जघन्यत उत्कृष्टत चैतावदायुषः सम्भवात् उपलक्षणं चैतच्छेषनिकायतेजोलेश्यास्थितेः, ततश्च भवनपतिव्यन्तराणां जघन्यतो दशवर्षसहस्राणि, उत्कृष्टतस्तु भवनपतीनां सागरोपममधिकं, व्यन्तराणां च पल्योपमं ज्योतिष्काणां तु जघन्यतः पत्योपमाष्टभागः, उत्कृष्टतस्तु वर्षलक्षाधिकं पल्योपमम्, एतावन्मात्राया एवैषां जघन्यत उत्कृष्टतथायुः स्थितेः सम्भवात् । 'दसवास
Forest Use Only
निर्युक्ति: [५४५...]
~1318~
लेश्याध्य
यनं. ३४
||६६०॥
wrp
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः