________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३४], मूलं [-] / गाथा ||२१-३२||
नियुक्ति: [५४५...]
(४३)
अवयं चोभयत्र पापं तद्भीरुः 'हितैषकः' मुक्तिगवेषकः, पाठान्तरतो हिताशयो वा-परोपकारचेताः, पठ्यते च'अणासवेति तत्र च न विद्यन्ते आश्रया-हिंसादयो यस्यासावनाश्रवः, एतद्योगसमायुक्तस्तेजोलेश्यां तु परिणमेत् ॥ प्रतनू-अतीवाल्पो क्रोधमानौ यस्य स तथा, चः पूरणे, माया लोभश्च उक्तरूपः प्रतनुको यस्येति शेषः, अत एवं प्रशान्तं-प्रकर्षणोपशमवचित्तमस्येति प्रशान्तचित्तः, दान्तः-अहितप्रवृत्तिनिवारणतो वशीकृत आत्मा येन स
तथा, योगवानुपधानवानिति च प्राग्वत्, तथा 'प्रतनुवादी' खल्पभाषकश्चशब्दो भिन्नक्रमो योक्ष्यते, 'उपशान्तः' ८ अनुटतयोपशान्ताकृतिः 'जितेन्द्रियश्च' वशीकृताक्षः, एतद्योगसमायुक्तः पालेश्यां तु परिणमेत् ॥ 'आर्तराद्रे
उक्तरूपे ध्याने 'वर्जयित्वा' परिहत्य 'धर्मशुक्ले' प्रागुक्ते एव शुभध्याने 'साधयेत्' सतताभ्यासतो निष्पादयेत्, यः है कीदृशः सन् ? इत्याह-प्रशान्तचित्तो दान्तात्मेति च प्राग्वत्, पाठान्तरतश्च ध्यायति यो विनीतविनयो दान्तः
समितः' समितिमान् ‘गुप्तश्च' निरुद्धसमस्तव्यापारः 'गुप्तिभिः' मनोगुत्यादिभिः, तृतीयार्थे सप्तमी, स च 'सरागः" अक्षीणानुपशान्तकषायतया वीतरागो वा ततोऽन्य उपशान्तः पाठान्तरतः 'शुद्धयोगो वा' निर्दोषव्यापारो जितेन्द्रियः प्राग्वत् , स एतद्योगसमायुक्तः शुक्ललेश्या तु परिणमति, इह च शुभलेश्यासु केषाञ्चिद्विशेषणानां पुनरुपादा|नेऽपि लेश्यान्तरविषयत्वादपौनरुत्यं, पूर्वपूर्वापेक्षयोत्तरोत्तरेषां विशुद्धितः प्रकृष्टत्वं च भावनीय, विशिष्टलेश्या चापेक्ष्येवं लक्षणाभिधानमिति न देवादिभिर्व्यभिचार आशङ्कनीय इति द्वादशसूत्रार्थः ॥ सम्प्रति स्थानद्वारमाह
दीप अनुक्रम [१४०३-१४१४]
wwjanatarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1311~