________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३४], मूलं [-] / गाथा ||२५...||
नियुक्ति: [५३४-५४४]
(४३)
प्रत
सूत्राक
[२५]]
कर्मवन्धसद्भावेऽपि न स्थितिसम्भयो, यदुक्तम्-"तं पढमसमये बद्धं बीयसमये वेइयं ततियसमए निजिणं"ति, आह-यदि कर्मनिस्सन्दो लेश्या तदा समुच्छिन्नक्रियं शुक्लध्यानं ध्यायतः कर्मचतुष्टयसद्भावे तन्निस्यन्दसम्भवेन कथं न लेश्यासद्भावः ?, उच्यते, नायं नियमो यदुत निस्सन्दवतो निस्सन्देन सदा भाव्यं, कदाचिन्निस्वन्दवत्स्व पि वस्तुपु तथाविधावस्थायां तदभावदर्शनात् , यच्चोक्तम्-अयोगिनो योगपरिणामाभावे लेश्यापरिणामाभाव इति निश्चिनुमः-योगपरिणाम एव लेश्येति, तदप्यसाधकं, यतो रश्म्यादयः सूर्याद्यभावे न भवन्ति, न च ते तद्रूपा एव, यत उक्तम्-“यच चन्द्रप्रभाधत्र, ज्ञातं तज्ज्ञातमात्रकम् । प्रभा पुद्गलरूपा यत्तद्धर्मों नोपपद्यते ॥१॥" अन्ये त्वाःकार्मणशरीरवत्पृथगेव कर्माष्टकाकर्मवर्गणानिष्पन्नानि कर्मलेश्याद्रव्याणीति, तत्त्वं पुनः केवलिनो विदन्ति । इत्युक्ता द्रव्यलेश्या,भावलेश्यामाह-द्विविधा च भावलेश्या विशुद्धलेश्या'अकलुषद्रव्यसंपर्कजात्मपरिणामरूपा तथैव अविशुद्धा इत्यविशुद्धलेश्या, तत्र द्विविधा विशुद्धलेश्या 'उवसमखइय'त्ति सूत्रत्वादुपशमक्षयजा,केषां पुनरुपशमक्षयी ? यतो जायत इयमित्याह-कषायाणाम् , अयमर्थः-कपायोपशमजा कषायक्षयजा च, एकान्तविशुद्धिं चाऽऽश्रित्यैवमभिधानम् , अन्यथा हि क्षायोपशमिक्यपि शुक्ला तेजःपझे च विशुद्धलेश्ये संभवत एवेति । अविशुद्धभावलेश्या सेति या प्रागुपक्षिप्ता 'द्विविधा' द्विभेदा 'णियमसा उत्ति, आपत्वात् 'नियमेन' अवश्यम्भावेन ज्ञातव्या पेजंमि यत्ति 'दोसंमियत्ति प्रेमणि च-रागे दोषे च द्वये, किमुक्कं भवति?-रागविषया द्वेषविषया च, इयं चात्कृष्णनीलकापोतरूपा,
दीप अनुक्रम [१३८२]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1299~