________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३४],
मूलं [-] / गाथा ||२५...|| नियुक्ति: [५३४-५४४]
(४३)
लेश्याध्य
उत्तराध्य. बृहद्वृत्तिः ॥५०॥
प्रत
%82
सुत्राक
[२५]
लेश्यामाह-या कर्मद्रव्यलेश्या वेतनतुशब्दसम्बन्धात्सा पुनः 'नियमात्' अवश्यम्भावात् पडिधा 'ज्ञातव्या' अव- बोद्धव्या, कथमित्याह-कृष्णा नीला 'काउ'चि कापोता 'तेउत्ति तैजसी पझा च शुक्ला चेति, इह च कर्मद्रव्यलेश्येति सामान्याभिधानेऽपि शरीरनामकर्मद्रव्याण्येव कर्मद्रव्यलेश्या, यदुक्तं प्रज्ञापनावृत्तिकृता-"योगपरिणामो लेश्या, कथं पुनर्योगपरिणामो लेश्या ?, यस्मात्सयोगिकेवली शुक्ललेश्यापरिणामेन विहत्यान्तर्महः शेषे योगनिरोध करोति, ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति, अतोऽवगम्यते-योगपरिणामो लेश्येति, स पुनर्योगः शरीरनामकर्मपरिआणतिविशेषः, यस्मादुक्तं-“कर्म हि कार्मणस्य कार्यमन्येषां च शरीराणा"मिति, तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवारद्रव्यसमूहसाचिव्याजीवव्यापारो यः स वाग्योगः, तथैयौदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो यः स मनोयोग इति, ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतियोग उच्यते तथैव लेश्याऽपी"ति गुरवस्तु व्याचक्षते-कर्मनिस्यन्दो लेश्या, यतः कर्मस्थितिहेतवो लेश्याः, यथोक्तम्-"ताः कृष्णनीलकापोततेजसीपाशुक्लनामानः । श्लेष इव वर्ण-| बन्धस्य कर्मबन्धस्थितिविधात्र्यः ॥१॥” इति, योगपरिणामत्वे तु लेश्यानां "योगा पयडिपएसं ठिइअणुभागं कसायओ कुणति"त्ति वचनात्प्रकृतिप्रदेशवन्धहेतुत्वमेव स्यात् न तु कर्मस्थितिहेतुत्वं, कर्मनिस्यन्दरूपत्वे तु । यावत्कषायोदयस्तावत्तन्निस्यन्दसापि सद्भावात्कर्मस्थितिहेतुत्वमपि युज्यत एव, अत एवोपशान्तक्षीणमोहयोः
दीप अनुक्रम [१३८२]
५०॥
4
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1298~