________________
आगम
(४३)
प्रत
सूत्रांक
[४-१५]
दीप
अनुक्रम
[१३६१
-१३७२]
उत्तराध्य.
बृहद्वृत्तिः
॥६४२ ||
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा || ४-१५||
अध्ययनं [ ३३ ],
Education intemational
'तथैवे 'ति तेनैव निद्रावत्किञ्चिच्छुमरूपतात्मकेन प्रकारेण प्रचलत्यस्यामासीनोऽपीति प्रचला, उक्तं हि - "पैयला होति ठियस्स उ"त्ति, 'निद्रानिद्रा च' अतिशयनिद्रा दुःखप्रतिबोधात्मिकाऽतिशयख्यापनार्थत्वाद् द्विरुच्चारणस्य, यदुक्तम्- "दुहपडिबोहो य हिणिद्द"त्ति, एवं 'प्रचलाप्रचला' प्रचलाऽतिशायिनी, सा हि चङ्क्रम्यमाणस्यापि भवति, यथोक्तम्- “वैयलापयला उ चंकमओ"त्ति, चशब्दावुभयत्र तुल्यताख्यापको, द्वे अपि शुभतया तुल्ये एवैते तत् उपरीति शेषस्ततश्च प्रकृष्टतराशुभानुभावतया ताभ्य उपरिवर्त्तिनी स्त्याना संहतोपचितेत्यर्थः ऋद्धिर्गृद्धिर्वा यस्यां सा स्त्यानर्द्धिः स्त्यानगृद्धिर्वा, प्राच्यश्चः समुचयार्थ इह योज्यते, एतदुदये च वासुदेववलार्द्ध-बलः प्रवलरागद्वेषोदयवांश्च जन्तुर्जायते, अत एव परिचिन्तितार्थसाधन्यसाबुच्यते, यदुक्तम्- “श्रीणी पुण दिणचिंतियस्स अत्थस्स साहणी पायं”ति, 'तुः' पूरणे पञ्चमी भवति ज्ञातव्या । 'चक्खमचक्खू ओहिस्स'त्ति मकारोऽलाक्षणिकः, ततश्चक्षुश्चाचक्षुश्रावधिश्च चक्षुरचक्षुरवधीति समाहारस्तस्य दर्शन इति च प्रत्येकं दर्शनशब्दो योज्यते ततश्चक्षुर्दर्शने-चक्षुषा रूपसामान्यग्रहणे अचक्षूंषि-चक्षुः सदृशानि शेषेन्द्रियमनांसि तद्दर्शने - तेषां खखविषयसामान्यपरिच्छेदे अवधिदर्शने-अवधिमा रूपिद्रव्याणां सामान्यग्रहणे, तथा 'केवले यत्ति प्रक्रमात्केवलदर्शने - सर्वद्रव्यपर्याणां सामान्यावबोधे, आवरणमेतचक्षुर्दर्शनादिविषयभेदाच्चतुर्विधमत आह- 'एवम्' इत्यनेन निद्रापञ्चविधत्वच १ प्रचछा भवति स्थितस्यैव २ दुःखप्रतिबोधो निद्रानिद्रेति ३ प्रचलाप्रचला तु चंक्रम्यमाणस्य ४ स्यानर्द्धिः पुनर्दिनचिन्तितार्थस्य साधनी प्रायः
For Patenty
निर्युक्तिः [५३२...]
~ 1282~
कर्मप्रकू
त्यध्य. ३३
||६४२ ॥
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः