________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३२], मूलं [--] / गाथा ||१०|| नियुक्ति : [५२६...]
(४३)
प्रत सूत्रांक [१०७]
'उपस्थितस्य तदुक्तार्थानुष्ठानोद्यतस्येत्यर्थः,किमित्याह-खसङ्कल्पानाम्-आत्मसम्बन्धिनां रागाद्यध्यवसायानां विक-13 ल्पना-विशेषेण छेदनं स्वसङ्कल्पविकल्पना,दृश्यते हि छेदवाच्यपि कल्पशब्दः,यथोक्तम्-"सामर्थे वर्णनायां च, छेदने । करणे तथा । औपम्ये चाधिवासे च, कल्पशब्दं विदुर्बुधाः ॥ १॥" 'आसुं'ति 'आशु' शीभ 'संजायते' भवति, पठन्ति च-'ससंकप्पविकप्पणासो'ति, तथा 'अत्थे असंकप्पयतो ति, तत्र च स्वस्थ-आत्मनः सङ्कल्पः-अध्यवसायस्तस्य विकल्पा-रागादयो भेदास्तेषां नाश:-अमावः खसङ्कल्पविकल्पनाशः, तथा को गुणः? इत्याह-'अर्थान' रूपादीन् 'असङ्कल्पयतः' रागादिविषयतयाऽनध्यवस्वतः 'ततः' इति स्वसङ्कल्पविकल्पनातः खसंकल्पविकल्पनाशाद्वा 'से' तस्य प्रहीयते कामगुणेषु तृष्णेति सूत्रार्थः ॥ ततः स कीरशः सन् किं विधत्ते ? इत्याह
सो वीयरागो कयसब्यकिञ्चो, खवेह नाणावरणं खणणं ।
तहेच जं दरिसणमावरेइ, जं चतरायं पकरेइ कम्मं ॥१०८॥ | 'सः' इति हीनतृष्णः 'वीतरागः' विगतरागद्वेषो भवति, तृष्णा हि लोभस्तत्क्षये च क्षीणकषायगुणस्थानायाप्तिरिति, तथा कृतसर्वकृत्य इव कृतसर्वकृत्यः प्राप्तप्रायत्वादनेन मुक्तेः 'क्षपयति' क्षयं नयति 'ज्ञानावरणं' वक्ष्यमाणस्वरूपं 'क्षणेन' समयेन तथैव यद् 'दर्शनं' चक्षुर्दर्शनादि 'आवृणोति' स्थगयति दर्शनावरणमित्यर्थः, यथ 'अन्तरायं' दानादिलब्धिविघ्नं प्रकरोति 'कर्म' अन्तरायनामकमित्युक्तं भवति, स हि क्षपितमोहनीयस्तीर्णमहासागर
****HAKHABAR
दीप अनुक्रम [१३५३]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1273~