________________
आगम
(४३)
प्रत
सूत्रांक
[१०५]
दीप
अनुक्रम [१३५१]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [ - ] / गाथा ||१०५ ||
निर्युक्तिः [५२६...]
Education intamational
अध्ययनं [३२],
त्वादुद्यच्छत्येव, कोऽर्थः :- तत्प्रवृत्तायुत्सहत एव, 'रागी' रागवानुपलक्षणत्वाद् द्वेषी च सन् रागद्वेषयोरेव सकलानर्थस्य परम्पराकारणत्वादिति सूत्रार्थः ॥ किमिति रागद्वेषवतः सकलाऽप्यनर्थपरम्परोच्यते ? इत्याशङ्कयाहविरज्यमाणस्स य इंदियत्था, सद्दाइया तावश्यप्पगारा ।
न तस्स सव्वेवि मणुन्नयं वा निव्वत्तयंती अमणुन्नयं वा ॥ १०६ ॥
विरज्यमानस्येति उपलक्षणत्वादद्विषतश्च 'चः' पुनरर्थे ततो विरज्यमानस्याद्विषतश्च पुनः 'इन्द्रियार्थाः' शब्दा|दिकाः पाठान्तरतो वर्णादिका वा तावन्त इति यावन्तो लोके प्रतीताः प्रकाराः खरमधुरादिभेदा येषां ते तावत्प्रकाराः, बहुप्रभेदा इत्यर्थः, न 'तस्य' इति मनुजस्य 'सर्वेऽपि' समस्ता अपि मनोज्ञतां वा 'निर्वर्त्तयन्ति' जनयन्त्यमनोज्ञतां वा [निर्वर्त्तयन्ति, ] किन्तु ?, रागद्वेषवत एव, खरूपेण हि रूपादयो न मनोज्ञताममनोज्ञतां वा कर्तुमा - त्मनः क्षमाः किन्तु रक्तेतरप्रतिपत्रध्यवसायवशाद् उच्यते चान्यैरपि - " परिव्राट्कामुकशुनामेकस्यां प्रमदातनी । कुणवं कामिनी भक्ष्यमिति तिस्रो विकल्पनाः ॥ १ ॥ ततो वीतरागस्य तन्निर्वर्त्तन हेत्वभावात्कथममी मनोज्ञतामनोज्ञतां पा निर्वर्त्तयेयुः १, तदभावे च कथं विषयसेवनाक्रोशदानादिप्रयोजनोत्पत्तिः । इति, पूर्व सति मनोज्ञत्वेऽमनोज्ञत्वे च समस्य रूपादीनामकिञ्चित्करत्वमुक्तम्, इह तु मनोज्ञत्वामनोज्ञत्वे अपि तादृशस्य न भवत एवेत्युच्यत इति पूर्वस्माद्विशेष इति सूत्रार्थः ॥ तदेवं “जे जे उपाया पडिवजियब"त्ति प्रतिज्ञातरागद्वेषयोर्मोहस्य च परस्प
Forest Use Only
www.jacibrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
~ 1271~