________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३२], मूलं [-] / गाथा ||२२-९९|| नियुक्ति: [५२६...]
(४३)
प्रत सूत्रांक
[२२
-९९]
शादि, तथा हरिणमियच मुद्धेति, मृगः सर्वोऽपि पशुरुच्यते, यदुक्तम्-"मृगशीर्षे हस्तिजाती, मृगः पशुकरायोः" दाइति, हरिणस्तु कुरङ्ग एवेति तेन विशेष्यते, हरिणश्चासौ मृगश्च हरिणमृगः 'मुग्धः' अनभिज्ञः सन् 'शब्द' गौरिगी
तात्मकेऽतृसः-तदाकृष्टचित्ततया तत्रातृप्तिमान् । 'माणस्य' इति घाणेन्द्रियस्य गन्ध्यते-चायत इति गन्धस्तं 'मनो|' सुरभिम् 'अमनोजम्' असुरभि, तथौषधयो-नागदमन्यादिकास्तासां गन्धस्तत्र गृद्धो-गृद्धिमानौषधिगन्धगृद्धः | सन् 'सप्पविलाओ विव'त्ति इयशब्दस्य भिन्नक्रमत्वात्सर्प इव बिलान्निष्क्रमन् , स खत्यन्तप्रि(तप्रियतया तगन्धं सोढुमशक्नुवन् बिलान्निष्कामति ३ । 'जिह्वायाः' 'जिह्वेन्द्रियस्य रयते-आखाद्यत इति रसस्तं 'मनोज' मधुरादि। 'अमनोज कटुकादि तथा बडिश-प्रान्तन्यस्तामिषो लोहकीलकस्तेन विभिन्नकायो-विदारितशरीरो बडिशविभिन्नकायः 'मत्स्यः' मीनो यथाऽऽमिषस्य-मांसादेर्भोगः-अभ्यवहारस्तत्र गृद्ध आमिषभोगगृद्धः ४ । काय इह-४ स्पर्शनेद्रियं, सर्वशरीरगतत्वख्यापनार्थ चास्यैवमुक्तं, तस्य स्पृश्यत इति स्पर्शस्त 'मनोज' मृदुप्रभृति 'अमनोझ'कर्कशादि शीत-शीतस्पर्शवजलं-पानीयं तत्रावसन्नः-अवमानः शीतजलावसन्नो ग्राहैः-जलचरविशेषैगृहीतः-कोडी-13 कृतो ग्राहगृहीतो महिप इवारण्ये, वसति हि कदाचित्केनचिदुन्मोच्येतापीत्यरण्यग्रहणम् ५। 'मनसः' चेतसो भाव:-अभिप्रायः स चेह स्मृतिगोचरस्तं 'ग्रहणं' ग्राह्यं वदन्तीन्द्रियाविषयत्यात्तस्य, 'मनोज' मनोजरूपादिविषयम् 'अमनोज' तद्विपरीतविषयम् , एवमुत्तरग्रन्थोऽपि भावविषयरूपाद्यपेक्षया व्याख्येयः, यद्वा खप्नकामदशादिषु
दीप अनुक्रम [१२६८-१३४५]]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1265~