________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३२], मूलं [-] / गाथा ||१०-२०|| नियुक्ति: [५२६...]
(४३)
वा स्त्रीजनस्वार्यध्यान-धादि तस्य योग्य-तहेतुत्वेनोचितमार्यध्यान योग्य 'हित' पथ्यं 'सदा' सर्वकालं नमनते पाठान्तरतो ब्रह्मचर्ये 'रतानाम्' आसक्तानां, ततः स्थितमेतत्-स्त्रीणां रूपादि मनसि निवेश्य द्रष्टुं व्यवस्खेत् ॥ ननु |
'विकारहेतौ सति विक्रियन्ते, येषां न चेतांसि त एव धीराः' तत्किमिति रागमुद्ध कामेन विविक्तशयनासनताविनिधयेत्युच्यते ? इत्याशङ्कयाह-'कामं तुति अनुमतमेवैतद् यदुत 'देवीहिवित्ति 'देवीभिरपि'अप्सरोभिरप्यास्तां मानुषी|भिरित्यपिशब्दार्थः 'भूषिताभिः' अलङ्कृताभिः 'न' नैव 'चाइय'त्ति शकिताः 'क्षोभयितुं' चालयितुं संयमादिति गम्यते 'तिसृभिः' मनोगुप्त्यादिगुप्तिभिर्गुसाः अर्थान्मुनयः 'तथाऽपि' यदप्येवंविधाचाल यितुं न शक्यन्ते तदप्येकान्तहितमेतदिति ज्ञात्वा, किमुक्तं भवति ?-संभवन्ति हि केचिदभ्यस्तयोगिनोऽपि ये तत्समतः क्षुभ्यन्ति, येऽपि न क्षुभ्यन्ति तेऽपि खीसंसक्तवसतिवासे “साहु तवो वणवासो" इत्याद्यवर्णादिदोपभाजो भवेयुरिति परिभाष्य 'विविक्तवासो' विविक्तशय्यासनात्मको मुनीनां प्रशस्त इत्यन्त वितण्यर्थतया 'प्रशंसितः' गणधरादिभिः श्लाधित इत्यर्थः, अतः स एवाश्रयणीय इति भावः । एतत्समर्थनार्थेमेव स्त्रीणां दुरतिक्रमत्वमाह-'मोक्षाभिकातिणोऽपि' मुक्त्यभिलाषिणो-IK |ऽपि मानवस्य संसारात-चतुर्गतिरूपायनशीलो भीरुः संसारभीरुः, अपेरिहापि सम्बन्धात्तस्यापि-तथास्थितस्यापि धर्मे' श्रुतधर्मादौ 'न' नैव 'एतादृशम् ईदृशं दुस्तरं-दुरतिक्रमम् 'अस्ति' विद्यते 'लोके' जगति यथा 'स्त्रियः' युवतयः 'बालमनोहराः' निर्विवेकचित्ताक्षेपिण्यो दुस्तराः, दुस्तरत्वे च बालमनोहरत्वं हेतुः, अतश्चातिदुस्तरत्वादासां परि
अनुक्रम [१२५६-१२६६]
JABERatinintamational
instandinrary on
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1251~