________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं -1 / गाथा ||३५||
नियुक्ति: [६४...]
(४३)
प्रत
सूत्रांक
||३५||
| कटकुट्यादिना सङ्कटद्वारे, अटव्यां कुडङ्गादिषु वा, अन्यथा दीनादियाचने दानादानयोः पुण्यवन्धप्रद्वेषादिदर्शनात्,
संवृतो वा सकलाश्रयविरमणात् , 'समकम् ' अन्यैः सह, न त्वेकाक्येव रसलम्पटतया समूहासहिष्णुतया वा, अत्राह च-"साहवो तो चियत्तेणं, निमंतिज जहकम। जइ तत्थ कोइ इच्छेजा, तेहिं सद्धिं तु भुंजए ॥१॥'त्ति, गच्छस्थितसामाचारी चेयं गच्छस्यैव जिनकल्पिकादीनामपि मूलत्वख्यापनायोक्ता, उक्तं हि-'गच्छे थिय निम्मा
ओ' इत्यादि, यद्वा 'समय'ति सममेव समकं-सरसविरसादिष्वभिष्वङ्गादिविशेषरहितं, सम्यग् यतः संयतः यतिरित्यर्थः, 'भुञ्जीत' अश्नीयात् 'जय'ति यतमानः 'अप्परिसाडिय'ति परिसाटविरहितमिति सूत्रार्थः ॥ ३५ ॥ यदुक्तं 'यतमान इति, तत्र बाग्यतनामाहसुकडंति सुपक्कंति, सुछिन्नं सुहडे मडे । सुनिट्ठिए सुलवित्ति, सावजं वजए मुणी ॥ ३६॥ (सूत्रम्) | व्याख्या-'सुकृतं' सुष्टु निर्वर्तितमन्नादि 'सुपक्कं' घृतपूर्णादि, 'इतिः' उभयत्र प्रदर्शने, 'सुच्छिन्नं' शाकपत्रादि
'सुहत शाकपत्रादेतिक्तत्वादि घृतादि वा सूपविलेपिकादीनां, तथा 'मडे'त्ति प्रक्रमात् सुष्टु मृतं घृतायेव सक्तुदसूपादी, तथा सुष्टु निष्ठितमित्यतिशयेन निष्ठां-रसप्रकर्षपर्यन्तात्मिकां गतं, 'सुलहित्ति सर्वैरपि रसादिभिः प्रकारैः । शोभनमिति, 'इतिः' एवंप्रकारार्थः, एवंप्रकारमन्यदपि सावधं प्रक्रमाद्वचो, वर्जयेन्मुनिः। यद्वा-सुष्टु कृतं यदनेनारातः
१ साधून ततः प्रीत्या निमन्वयेत् यथाक्रमम् । यदि तत्र कोऽपीच्छेत् तेन सार्ध तु भुजीत ॥ १ ॥ २ गच्छ एव निर्मातः.
दीप अनुक्रम [३५]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~124~