________________
आगम
(४३)
प्रत
सूत्रांक
[R
-७३]
दीप
अनुक्रम [१११४
-११८७]
उत्तराध्य.
गृहद्वृत्तिः
॥५९६ ॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१२-७३] / गाथा ||--||
अध्ययनं [२९],
Education intemational
तद्यापारं च प्रतिसमयं निरुन्धन्नसंख्येय समयैस्तत्सर्वनिरोधं करोति, यत उक्तम् - " पज्जत्तमित्तसण्णिस्स जन्तियाई | | जहण्णजोगिस्स । होन्ति मणोदवाई तच्चावारो य जम्मेत्तो ॥ १ ॥ तयसंखगुणविहीणे समए समय निरंभमाणो | सो। मणसो सङ्घणिरोहं कुणइ असंखेजसमएहिं ||२||” तदनन्तरं च वांचो वाचि वा योगो भाषाद्रव्यसाचिव्यजनितो जीवव्यापारस्तन्निरुणद्धि, तत्र च पर्याप्तमात्रद्वीन्द्रियजघन्यवाग्योगपर्यायेभ्योऽसंख्येयगुणविहीनांस्तत्पर्यायान् समये समये निरुन्धन्न संख्येयसमयैः सर्ववाग्योगं निरुणद्धि, यत उक्तम्- "पजत्तमित्तबिंदिय जहन्नवइजोगपजवा जे उ । तदसंखगुणविहीणं समए समए निरुभंतो ॥३॥ सव्ववदजोगरोह संखाईएहि कुणइ समपहिं ।" 'आणापाणुणिरोह' ति आनापानौ - उच्छ्रासनिःश्वासौ तन्निरोधं करोति, सकलकाययोगनिरोधोपलक्षणं चैतत् तं च कुर्वन् प्रथमसमयोउत्पन्न सूक्ष्मपनकजघन्य काययोगतोऽसङ्घवेयगुणहीनं काययोगेनैकैकसमये निरुन्धन् देहत्रिभागं च मुञ्चन्नसङ्ख्येयसमयैरेव सर्व निरुणद्धि, यत उक्तं च- "तत्तो य सुदुमपणयस्स पढमसमओववण्णस्स ॥ ४ ॥ जो किर जहण्णजोओ तयसंखेज्जगुणहीण मेकेके । समए निरुंभमाणो देहतिभागं च मुंचंतो ॥५॥ रुंभइ स कायजोगं संखाईएहिं चैव समएहिं । तो कयजोगनिरोहो सेलेसी भावणामेति ॥ ६ ॥" इत्थं योगत्रयनिरोधं विधाय ईषदिति खल्पः प्रयत्नापेक्षया पञ्चानां हखाक्षराणाम् अइउऋल इत्येवंरूपाणामुञ्चरणमुच्चारो -भणनं तस्याद्धा कालो यावता त उच्चार्यन्त ईषत्पञ्चाक्षरोचारणाद्धा तस्यां च णमिति प्राग्वत् अनगारः समुच्छिन्ना-उपरता क्रिया - मनोव्यापारादिरूपा यस्मिं
For Fasten
निर्युक्ति: [५०९...]
~1190~
सम्यक्त्व
पराक्रमा.
२९
॥५९६॥
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः