________________
आगम
“उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९],
मूलं [१R-७३] / गाथा ||--|| नियुक्ति: [५०९...]
(४३)
प्रत
उत्तराध्य.] बृहद्वृत्तिः ॥५८६॥
सूत्रांक [१R
-७३]
ख्यशुक्लध्यानवर्ती भूत्वा ततः पश्चात् तदनन्तरं 'सिध्यति' निष्ठितार्थों भवति 'बुध्यते' ज्ञानदर्शनोपयोगाभ्या च सम्यक्त्व. वस्तुतत्त्वमवगच्छति, न तु नवात्मगुणात्यन्तोच्छेदात्मकमुक्तिवादिनामियाबुद्धिमान् भवति, मुच्यते संसारान्न तु
पराक्रमा. 'दग्धेन्धनः पुनरुपैति भव'मित्यादिवादिपरिकल्पितमुक्तवत्पुनरिहागमनवान् अत एव परिनिर्वातीत्यादि प्राग्वत. आह-अनन्तरं तपसो व्यवदानं फलमुक्तं, तब मुक्त्याख्यफलोपलक्षकमित्यतिदेशेनोक्तमिति किं पुनस्तत्फलत्वेन ॥ २९ साक्षादस्थाभिधानम् ?, उच्यते, सूत्रकृतां वैचित्र्यख्यापनार्थ, ते हि परार्थोद्यतचेतसः परेषां प्रज्ञाप्रकर्षापकर्षावपेक्ष्य 81 कचित्साक्षादभिधानोचितानप्यानस्पष्टतया निर्दिष्टवन्तः कचित्तु गम्यानपि च साक्षादन्यत्र तूभयथेति २८ ।। व्यवदानं च सत्सपि संयमादिषु सुखशायितायामेव भवतीति तामेवाह, तत्र च सुखं शेते, कोऽभिप्रायः ?प्रवचनशङ्कादीनां परलाभकामभोगशरीरसंवाधनादिमदनस्पृहादीनां च क्रमेणाभावरूपासु चतसषु सुखशय्यासु स्थितत्वेन मनोविघाताभावान्निराकुलतयाऽऽस्त इति सुखशायि तस्य भायः सुखशायिता, प्राकृतत्वात्सूत्रे यलोपः, तयाऽनुत्सुकत्यं कोऽर्थः ?-परलाभदिव्यमानुषकामभोगेषु सर्वदा निःस्पृहत्वं, यदिवा 'सुहसायार'त्ति प्राकृतत्वात्सुखं-वैषयिक शातयति-तद्गमनस्पृहानिवारणेनापनयतीति सुखशातस्तस्य भावः सुखशातता तया, पठन्ति च- ५८६॥ 'सुहसाएणं ति, तत्र च सुखशायः-सुखेन शयनं तेन, यदिवा सुखशातः-सुखस्य शातनं तेन जीवः 'अनुत्सुकत्वं'। विषयसुखं प्रति निःस्पृहत्वं 'जनयति' उत्पादयति, संयमादिष्वेव निष्पन्नमानसत्वात् , अनुत्सुकश्च जीवोऽनु
दीप अनुक्रम [१११४-११८७]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1170~