________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९],
मूलं [१R-७३] / गाथा ||--|| नियुक्ति : [५०९...]
(४३)
प्रत
सूत्रांक [१R
-७३]
त्याह-पिहितव्रतच्छिद्रः पुनर्जीवः 'निरुद्धाश्रवः' सर्वधा हिंसाद्याश्रवाणां निरुद्धत्वात् , अत एवासबल-सबलस्थानरकखुरीकृतं चरित्रं यस्य स तथा, 'अष्टसु प्रवचनमातृषु' उक्तरूपासु 'उपयुक्त' अवधानवान् तत एवाविद्यमानं पृथक्त्वंप्रस्तावात्संयमोद्योगेभ्यो वियुक्तखरूपं यस्यासौ अपृथक्त्वः-सदा संयमयोगवान् , (अ) प्रमत्तो वा पाठान्तरात्, तथा 'सुप्रणिहितः' सुष्ठ संयमे प्रणिधानवान्, पाठान्तरतो वा सुष्ठु प्रणिहितानि-असन्मार्गात् प्रच्याव्य सन्मार्गे व्यवस्थापितानीन्द्रियाण्यनेनेति सुप्रणिहितेन्द्रियः विहरति' संयमाध्वनि याति ११ । अत्र चातीचारशुद्धिनिमित्त कायोत्सर्गः कर्तव्य इति तमाह-काय:-शरीरं तस्योत्सर्ग:-आगमोक्तनीत्या परित्यागः कायोत्सर्गस्तेन, अतीतं चेह चिरकालभावित्वेन प्रत्युत्पन्नमिव प्रत्युत्पन्नं चासनकालभावितयाऽतीतप्रत्युत्पन्नं 'प्रायश्चित्तम्' उपचारात्प्रायश्चित्ताईमतीचारं 'विशोधयति' तदुपार्जितपापापनयतोऽपनयति, विशुद्धप्रायश्चित्तश्च जीवो निर्वृत्तं-स्वस्थीभूतं हृदयम्अन्तःकरणमस्येति निवृत्तहृदयः, क इव ?-'ओहरिय'त्ति अपहृतः-अपसारितो भर इति-भारो यस्मात्स तथा, इवेति भिन्नक्रमः, ततो भारं वहतीति मूलविभुजादेराकृतिगणत्वात्कप्रत्यये भारवहो-वाहीकादिः स इव, भारप्राया खतीचारास्ततस्तदपनयनेऽपहतभरभारवाह इव निवृत्तहृदयो भवतीति भावार्थः, स च ध्यान-धर्माधुपगतःप्रासो ध्यानोपगतः पाठान्तरतः प्रशस्तध्यानध्यायी 'सुखसुखेन' सुखपरम्परावास्या 'विहरति' इहपरलोकयोरवतिष्ठते, इहैव जीवन् मुक्त्यवातेरिति भावः १२ । एवमप्यशुद्ध्यमाने प्रत्याख्यानं विधेयमिति तदाह-प्रत्याख्या
CCCCCCCCC++
दीप अनुक्रम [१११४-११८७]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1159~